This page has been fully proofread once and needs a second look.

४४
 
काव्यमाला ।
 
आयासमीदृशं यत्त्वमर्थितोऽसि जगद्गुरो ।
 

तन्मम क्षम्यतां बाल्यचापल्यमिति चानमत् ॥ ८९ ॥

 
अभिषेकप्रियाणां नः प्रियमेतत्कृतं त्वया ।
 

नापराद्धं पुनः किंचिदित्युवाच तमीश्वरः ॥ ९० ॥

 
अभिधाय वृषात्तूर्णमवरुह्य महेश्वरः ।
 

निषसाद पुरस्तस्य निर्मले स्फाटिके तले ॥ ९१ ॥

 
आबद्ध्य चर्म वैयाघ्रमपसार्य च बालकौ ।
 

सावष्टम्भः क्षितावास्त सज्जीभूतो वृषध्वजः ॥ ९२ ॥

 
सावलेपनभःसिन्धुसंनिपातोचितं प्रभोः ।
 

नन्दी विस्रंसयामास नागेन्द्रग्रथिता जटाः ॥ ९३ ॥

 
भगिनीसमागमसमुत्सुका शिवा

प्रमथास्तदद्भुतदिदृक्षयाकुलाः ।

स्वमनोरथोपगमसान्द्र कौतुको
 

नृपतिश्च तं निभृतमक्षिभिः पपुः ॥ ९४ ॥

 
बद्धस्रस्तकपर्दकन्दरपतद्भोगीन्द्रचन्द्राङ्कुर -

क्षेपव्यापृतनन्दिदृष्टिवलनव्याधूतदिग्भित्तयः ।
 
"

सावष्टम्भमहेशसंभ्रमपरित्रस्यत्रिलोकस्तुताः
 

पारे मद्चसाममर्त्यतटिनीसंपातपूर्वक्षणाः ॥ ९५ ॥

 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-

निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण

नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते

गङ्गावतरणे शंकरसाक्षात्कारो नाम चतुर्थः सर्गः ।
 

 
पञ्चमः सर्गः ।

प्रान्तसंक्रमिततारया दृशा पश्यति त्रिपुरशासने ततः ।

अस्मरत्सुरनदीमहंकृतां ध्यानयोगविधिना भगीरथः ॥ १ ॥

संभृता मनसि सा ततः क्षणात्संभ्रमेण महताकुलीकृता ।

सर्वतश्चिरनिरोधलज्जितं सज्जतामनयदूर्मिमण्डलम् ॥ २ ॥