This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
उन्मीलयन्दृशौ किंचित्तेन कोलाहलेन सः ।

अप्राकृतं महः किंचिदद्राक्षीदग्रतो दृशोः ॥ ६३ ॥

तस्यान्तः पुरुषं कंचित्तरुणेन्दुशिखामणिम् ।

सान्द्रीभूतशरच्चन्द्रचन्द्रिकाभं ददर्श सः ॥ ६४ ॥

निर्बन्धक्लान्तभूषाहिनिर्दयाघ्रातमूच्छितम् ।

बोधयन्तं पुनः स्कन्दं चूडाचन्द्रसुधाकणैः ॥ ६५ ॥

हृदयं वीतमालिन्यं वाचमप्यमृतोर्मिलाम् ।

अधिष्ठातुमशक्तेन क्ष्वेलेनाक्रान्तकंधरम् ॥ ६६ ॥

दुर्दान्तत्रिपुरप्लोषवृत्तान्तज्ञैः सुधाशनैः ।

सातङ्कं दृष्टवदनं बहुमानस्मितेष्वपि ॥ ६७ ॥

कपालानि शिरःस्थानि स्कन्धे प्रत्येकशो विधेः ।

दत्त्वा तदीयजिज्ञासौ गणेशे कुपितं मृषा ॥ ६८ ॥

हेरम्बकंधरालम्बिदूर्वाग्रग्रासकौतुकात् ।

गन्तुमुन्नमितग्रीवं गृह्णन्तमसकृन्मृगम् ॥ ६९ ॥

अस्मिन्दयस्व रक्षेमममुं पश्येति नाकिनाम् ।

आवेदयन्त्या कार्याणि हैमवत्याप्यनूषितम् ॥ ७० ॥

अथ दृष्ट्वा स देवेशमदृष्टं निगमैरपि ।

साध्वसाद्भुतसंभ्रान्तो न किंचित्प्रत्यपद्यत ॥ ७१ ॥

ततः प्रदक्षिणीकृत्य तन्मयं सपरिच्छदम् ।

. मुहुः पस्पर्श धन्येन मूर्धा तस्याङ्घ्रिपङ्कजम् ॥ ७२ ॥

आत्मार्हैः <error>फलपुप्पाद्यैरानर्च</error><fix>फलपुष्पाद्यैरानर्च</fix> स महेश्वरम् ।
तद

तदर्है
र्यदि यष्टव्यं कस्तमाराधयिष्यति ॥ ७३ ॥

क्वायं क्व शंभुस्तदपि स्तोतुं समुपचक्रमे ।

न हि वस्तुकृता प्रीतिः स्वशक्तिमनुरुध्यते ॥ ७४ ॥

त्वं गतिस्त्वन्मयं विश्वमिति साधारणी स्तुतिः ।

अस्तुतिस्त्वयि युक्ता तदवाङ्मनसगोचरे ॥ ७५ ॥