This page has been fully proofread once and needs a second look.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
सान्द्रस्तनपरीणाहसंभुग्नाय पदेपदे ।
 

भद्रान्याशास्त मध्याय पार्वत्याः प्रणयी तदा ॥ ५० ॥

आयतोळीद्ग्रीविकाखिन्नानमरान्वेत्रदूरितान्
 


कटाक्षैः सानुजग्राह करुणासारसान्द्रितैः ॥ ५१ ॥

अनालम्ब्य सखीहस्तमनाक्रम्य च पादुकाम् ।

संनिकर्ष महेशस्य सा जगाम शनैः शनैः ॥ ५२ ॥

कृत्वा सव्यपदं लक्ष्म्याः कुञ्चिते जानुमण्डले ।

आरुरोह वृषं शंभोर्हस्तमालव्य सा ततः ॥ ५३ ॥

आरोपयन्निव खैरमालिलिङ्ग शिवः शिवाम् ।

इति संकथयन्तीषु सखीष्वैक्षिष्ट सान्यतः ॥ ५४ ॥

पाणिभ्रमितशूलाग्रपर्यस्तजलदाः शिवम् ।

शतमन्वगमत्रुद्राः शतरुद्रीयसंस्कृताः ॥ ५५ ॥

कुतः प्रतिष्ठते देवः कुत्र चेति गणास्तदा ।

पाणिभिर्नयनान्तैश्च पप्रच्छुरितरेतरम् ॥ ५६ ॥

भुग्न भारेण भत्तक्त्या च पुण्ये शिरसि नन्दिनः ।

वाममास्थापयद्वाबाहुं वाहनस्थो महेश्वरः ॥ ५७ ॥

वाहनारोहविस्रस्तकपर्दान्तविलम्बितम् ।
 

चन्द्रं गृहीतुमुद्वाबाहुः स्कन्दो व्यचरदन्तिके ॥ ५८ ॥

प्रागलब्धं विचित्यापि पादं मौलिं च शूलिनः ।

पश्यन्तौ जग्मतुः पार्थे चक्रायुधचतुर्मुखौ ॥ ५९ ॥

अन्तकान्धककन्दर्पकालकूटादिनिग्रहम् ।

गायन्तो मधुरं तस्य गन्धर्वा ययुरग्रतः ॥ ६० ॥

प्रशान्तं पावनं तत्र प्राप्य राज्ञस्तपोवनम् ।

तस्थौ तपस्यतस्तस्य पुरतः पुरशासनः ॥ ६१ ॥

स च तत्रान्तरे प्रातः स्नातो मन्दाकिनीजले ।

दध्यौ चिरमुमाकान्तं दहराकाशमण्डले ॥ ६२ ॥
 
४१