This page has been fully proofread once and needs a second look.

४०
 
काव्यमाला ।
 
चण्डीशताण्डवालोकसंभ्रान्तानमृतान्धसः ।

ददर्श दिवि संध्यासु क्षणत्विष इव क्षणम् ॥ ३७ ॥

प्रत्यहं प्रमथास्तत्र पश्यन्तस्तं तिरोहिताः । Mi

जातु विज्ञापयमासुश्चरितं तस्य शूलिनः ॥ ३८ ॥

तावतस्तपसो दातुमपश्यन्नुचितं फलम् ।

हरः प्रतस्थे तं द्रष्टुमधमर्ण इव ह्रिहिया ॥ ३९ ॥

उपरि न्यस्य संव्यानमुत्सार्य वलयान्पुरः ।

आन्तःपुरगृहद्वारमम्बिकैव करं ददौ ॥ ४० ॥
 
१)
 

अचिन्तितोऽपनिष्क्रान्तमालक्ष्य मदनान्तकम् ।

किमेतदिति संभ्रान्ताः परिवव्रुस्ततो गणाः ॥ ४१ ॥

विनयानम्रजम्भारिविशोधितपुरं पुरः ।

अतिक्रम्यालयद्वारमारुरोह वृषं हरः ॥ ४२ ॥

अम्बापि संभ्रमासन्नसखीदत्तकरा शनैः ।

पादारविन्दविन्यासैः पावयामास मेदिनीम् ॥ ४३ ॥

कामं शिक्षितसंचारा कठोरे हृदि मे यतः ।

अतः कथंचिदाक्रामदगिङ्घ्रिभ्यामेव सा भुवम् ॥ ४४ ॥

चन्द्रचूडकरालम्बसंभृतारुण्यसंपदम् ।

अम्बिकायाः करं मन्दमाममर्श सखीजनः ॥ ४५ ॥

देवोऽपि स्वयमारुह्य वृषभं वृषभध्वजः ।

देव्या विलम्बमानाया दृष्टिमध्वनि संधे ॥ ४६ ॥

क्रुद्ध्यन्नन्दिकरोद्धूध्रूतवेत्रपातपलायिताः ।

विजहुः सरणिं गौर्या विनीतास्तत्र देवताः ॥ ४७ ॥

पद्भ्यामेवोपसर्पन्त्याः पार्वत्याः पथि शंकरः ।

कटाक्षैर्विचकारेव कहाह्लारेन्दीवरास्तरम् ॥ ४८ ॥

व्यजनैः प्रान्तविन्यस्तकस्तूरीचन्द्रगन्धिभिः ।

मातरं तामसेवन्त कौबेरान्तःपुरस्त्रियः ॥ ४९ ॥