This page has been fully proofread once and needs a second look.

३८
 
काव्यमाला ।
 
विना सशपथैः सान्त्वैर्विना व्याजैश्च कामिनाम् ।

अपि सान्द्रं परिष्वङ्गमन्वजानन्नवाङ्गनाः ॥ ११ ॥

गर्भेष्वाप्रपदीनानामवगुण्ठनवाससाम् ।

अशेत द्वन्द्वमस्पन्दमासक्तोरुभुजं मिथः ॥ १२ ॥
 

कञ्ञ्जुचुकाहरणातङ्ककातराणां मृगीदृशाम् ।

दयालुर्हैमनो वायुर्ददौ रोमाञ्चकञ्चुकम् ॥ १३ ॥

किं त्यक्तं युवभिर्घर्मे किं लब्धं चाधिकं हिमे ।

आनुकूल्याद्यशो लेभे चतुरस्तु हिमागमः ॥ १४ ॥

प्रकृत्या कुटिलो मारः पवनस्तुहिनाकरः ।

दीर्घाश्च रात्रयो हन्त जीवन्तु पथिकाः कथम् ॥ १५ ॥

संश्रान्तो हिमवर्षेण शङ्के मकरकेतनः ।
 

उपारुरोह नारीणामूष्मलं कुचमण्डलम् ॥ १६ ॥

फालानलशिखोत्तप्तपाणिपद्मा कपर्दिनः ।

कथमप्यतिचक्राम हिमं हैमवती तदा ॥ १७ ॥

ध्वंस्यमानेषु वाबाणेषु भज्यमाने च कार्मुके ।

भुवनान्यजयत्रीणि भ्रूक्षेपादेव मन्मथः ॥ १८ ॥

सन्त इव हेमन्तो वशीचक्रे जगत्रयम् ।
 
त्रयम् ।
न वसन्तः स्वतः किंतु यः स्मरेण कटाक्षितः ॥ १९ ॥
मनुः

मम्रुः
कुन्देषु ते भृङ्गा यैर्व्याप्तमखिलं वनम् ।

कस्य किं वा न पर्याप्तं कालो यद्युपतिष्ठते ॥ २० ॥
हौ

द्वौ
हि तेजखिस्विनौ लोके सविता स च पार्थिवः ।

तस्थतुस्तौ विभज्येव दक्षिणोत्तरयोर्दिशोः ॥ २१ ॥

स्वस्तिकस्थगितोरोजाः सीत्कारतरलाधराः ।

स्नानान्तेषु स्त्रियो मुग्धा यूनामाचकृषुर्मनः ॥ २२ ॥

पतितव्यं हिमैर्नाम स्नातव्यं नाम च द्विजैः ।

किं कुर्मः कृतवानेवं स विधिनोंर्नोपलभ्यते ॥ २३ ॥