This page has been fully proofread once and needs a second look.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
अधितिष्ठति स्म तटमस्य पावनं
 

हृदयं च तस्य पुनरिन्दुशेखरः ॥ ७१ ॥
 

इति श्रीमद्भरद्वाजकुल जलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-

निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षित पौत्रेण
 

नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते

गङ्गावतरणे गङ्गाहंकारो नाम तृतीयः सर्गः ।
 

 
चतुर्थः सर्गः ।
 

स बाह्यकरणग्रामसंविधानानुरोधिनीम् ।

आकृष्य मानसीं वृत्तिमाधत्त मदनान्तके ॥ १॥

इयता क्रमितुं शक्या मयेयमिति दर्शयन् ।

स तस्थौ भुवमाक्रम्य चरणाङ्गुष्ठरेखया ॥ २ ॥

बभौ तेन समुत्क्षिप्तो बाहुर्ज्याघातलाञ्छितः ।

जित्वा तपोभिर्ब्रह्मर्षीचैञ्जैत्रस्तम्भ इवोच्छ्रितः ॥ ३ ॥
खा

स्वा
त्मानन्दसुधाखास्वादसुखितो वसुधेश्वरः ।

न फलेषु न मूलेषु नाप्सु च प्रीतिमानभूत् ॥ ४॥

सस्त्रौ जजाप दध्यौ च स संध्याखखिलास्वपि ।

कथाभिः : कालकालस्य जजागर च शर्वरीः ॥ ५ ॥

तप्यमाने तथा तस्मिंस्तत्यजुः क्रमशो भयम् ।

क्षुद्रखखपदखास्वस्वपदस्वामिदुर्विदग्धा दिवौकसः ॥ ६ ॥

षडङ्गमातृकामूर्तिषडध्वादिविभेदिना ।

न्यासजालेन नृपतिरङ्गमङ्गमशोधयत् ॥ ७ ॥

अनुसंधाय चण्डीशमन्तश्चण्डांशुमण्डले ।

पार्थिवः
 
:
पञ्चषान्मासानुपासामास वासरे ॥ ८ ॥

अप्राकृतपरंज्योतिरभेदध्यानश लिनः ।
 

तस्य दृष्टिपथे स्थातुं तत्रास महसां निधिः ॥ ९ ॥

अगृहीतोत्तरासङ्गमासीनं च तमन्तरे ।

परीक्षितुमिवाजग्मुर्दिवसा हिमसान्द्रिताः ॥ १० ॥
 
३७