This page has not been fully proofread.

४ सर्गः ]
 
गङ्गावतरणम् ।
 
अधितिष्ठति स्म तटमस्य पावनं
 
हृदयं च तस्य पुनरिन्दुशेखरः ॥ ७१ ॥
 
इति श्रीमद्भरद्वाजकुल जलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षित पौत्रेण
 
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे गङ्गाहंकारो नाम तृतीयः सर्गः ।
 
चतुर्थः सर्गः ।
 
स बाह्यकरणग्रामसंविधानानुरोधिनीम् ।
आकृष्य मानसीं वृत्तिमाधत्त मदनान्तके ॥ १॥
इयता क्रमितुं शक्या मयेयमिति दर्शयन् ।
स तस्थौ भुवमाक्रम्य चरणाङ्गुष्ठरेखया ॥ २ ॥
बभौ तेन समुत्क्षिप्तो बाहुर्ज्याघातलाञ्छितः ।
जित्वा तपोभिर्ब्रह्मर्षीचैत्रस्तम्भ इवोच्छ्रितः ॥ ३ ॥
खात्मानन्दसुधाखादसुखितो वसुधेश्वरः ।
न फलेषु न मूलेषु नाप्सु च प्रीतिमानभूत् ॥ ४॥
सस्त्रौ जजाप दध्यौ च स संध्याखखिलाखपि ।
कथाभिः : कालकालस्य जजागर च शर्वरीः ॥ ५ ॥
तप्यमाने तथा तस्मिंस्तत्यजुः क्रमशो भयम् ।
क्षुद्रखखपदखामिदुर्विदग्धा दिवौकसः ॥ ६ ॥
षडङ्गमातृकामूर्तिषडध्वादिविभेदिना ।
न्यासजालेन नृपतिरङ्गमङ्गमशोधयत् ॥ ७ ॥
अनुसंधाय चण्डीशमन्तश्चण्डांशुमण्डले ।
पार्थिवः
 
: पञ्चषान्मासानुपासामास वासरे ॥ ८ ॥
अप्राकृतपरंज्योतिरभेदध्यानश लिनः ।
 
तस्य दृष्टिपथे स्थातुं तत्रास महसां निधिः ॥ ९ ॥
अगृहीतोत्तरासङ्गमासीनं च तमन्तरे ।
परीक्षितुमिवाजग्मुर्दिवसा हिमसान्द्रिताः ॥ १० ॥
 
३७