This page has been fully proofread once and needs a second look.

m
 
काव्यमाला ।
 
द्रवीभवद्भिः क्वचिदातपोष्मणां क्वचिच्च विद्याधरगानविद्यया ।

हिमस्वरूपैरितरैश्च यत्तटैः स्वयं भवेदेव न पञ्चपैषैर्दिनैः ॥ ५९ ॥

तपोविशुद्धे हृदये तपखिस्विनामपि क्षणादूर्ध्वमवस्थितो न यः ।

स एव यत्सानुविहारकौतुकी सदा महेशो यदि किं ततोऽधिकम् ॥ ६० ॥

स्व
तन्त्रखेलद्गिरिकन्यकाकरस्वयंग्रहावर्जितमुग्धपल्लवाः
 

 

मुनीन्द्रवृन्दादृतमूलपांसवो जयन्ति धन्याः किल यत्र वीरुधः ॥ ६१ ॥

परिभ्रमद्गन्धमृगाधिवासितं प्रकीर्णकल्पद्रुमपुष्पमप्यधः ।
 

शिलातलं स्निग्धविशालशीतलं सुखेन यत्राधिवसन्ति किंनराः ॥ ६२ ॥

यदीयनीहारकणानितस्ततः किरन्मृगाङ्कः प्रथते सुधाकरः ।

यदीयगण्डोपल एवं कश्चन प्रयाति कैलास इति स्थिरं यशः ॥ ६३ ॥

स यक्षविद्याधरकिंनराप्सरः फणीन्द्रगन्धर्वनिरन्तरे पथि ।

व्रजन्नतिक्रम्य तुषारभूधरं जगाम कैलासगिरिं जनेश्वरः ॥ ६४ ॥ ,

महेशभूषाहिकुलानि कन्दरे चिरोपरोधात्क्षुधितानि रक्षितुम् ।

समीरणं सेवितुमागतं बलान्नयन्ति यत्र प्रमथाः कृपालवः ॥ ६५ ॥

विशङ्कलङ्केशभुजोपकम्पिताद्यतो विकीर्णा रजतोपला इव ।
 

गणा जयन्ति प्रलयान्तपावकज्वलत्त्रिलोकी भसितावगुण्ठिताः ॥ ६६ ॥

तटेषु तत्तज्जगदण्डमण्डलीसमाहृतब्रह्मकरोटिकोटिषु ।
 

चरन्विधिर्यत्र न जातु शोचति स्मरन्नपि खंस्वं किल पञ्चमं शिरः ॥ ६७ ॥

प्रवेशिताः स्फाटिककन्दरोदरं नवाङ्गना यत्कटकेषु किंनरैः ।

अपत्रपन्ते बहिरासिताः सखीरवेक्ष्य नैर्मल्यवशादतिस्फुटम् ॥ ६८ ॥

बिभर्ति यः स्फाटिकराजतीस्तटीः कुटुम्बिनो यत्र धनेश्वरादयः ।

समः समृद्ध्या क इवास्य वर्तते प्रभुर्न भिक्षामटति स्वयं यदि ॥ ६९ ॥

शरार्कधुर्धूरवतीषु यत्तटे महेशपुष्पोपवनीषु रक्षिणः ।

स्वतःप्ररूढामपि जातु केतकीं न हि क्षमन्ते विषवल्लरीमिव ॥ ७० ॥

सुरसिद्धतापसगतागतोचितां
 

परिहृत्य तत्र पदवीं भगीरथः ।