This page has not been fully proofread.

m
 
काव्यमाला ।
 
द्रवीभवद्भिः क्वचिदातपोष्मणां क्वचिच्च विद्याधरगानविद्यया ।
हिमखरूपैरितरैश्च यत्तटैः खयं भवेदेव न पञ्चपैर्दिनैः ॥ ५९ ॥
तपोविशुद्धे हृदये तपखिनामपि क्षणादूर्ध्वमवस्थितो न यः ।
स एव यत्सानुविहारकौतुकी सदा महेशो यदि किं ततोऽधिकम् ॥ ६० ॥
खतन्त्रखेलद्गिरिकन्यकाकरस्वयंग्रहावर्जितमुग्धपल्लवाः
 

 
मुनीन्द्रवृन्दादृतमूलपांसवो जयन्ति धन्याः किल यत्र वीरुधः ॥ ६१ ॥
परिभ्रमद्गन्धमृगाधिवासितं प्रकीर्णकल्पद्रुमपुष्पमप्यधः ।
 
शिलातलं स्निग्धविशालशीतलं सुखेन यत्राधिवसन्ति किंनराः ॥ ६२ ॥
यदीयनीहारकणानितस्ततः किरन्मृगाङ्कः प्रथते सुधाकरः ।
यदीयगण्डोपल एवं कश्चन प्रयाति कैलास इति स्थिरं यशः ॥ ६३ ॥
स यक्षविद्याधरकिंनराप्सरः फणीन्द्रगन्धर्वनिरन्तरे पथि ।
व्रजन्नतिक्रम्य तुषारभूधरं जगाम कैलासगिरिं जनेश्वरः ॥ ६४ ॥ ,
महेशभूषाहिकुलानि कन्दरे चिरोपरोधात्क्षुधितानि रक्षितुम् ।
समीरणं सेवितुमागतं बलान्नयन्ति यत्र प्रमथाः कृपालवः ॥ ६५ ॥
विशङ्कलङ्केशभुजोपकम्पिताद्यतो विकीर्णा रजतोपला इव ।
 
गणा जयन्ति प्रलयान्तपावकज्वलत्रिलोकी भसितावगुण्ठिताः ॥ ६६ ॥
तटेषु तत्तज्जगदण्डमण्डलीसमाहृतब्रह्मकरोटिकोटिषु ।
 
चरन्विधिर्यत्र न जातु शोचति स्मरन्नपि खं किल पञ्चमं शिरः ॥ ६७ ॥
प्रवेशिताः स्फाटिककन्दरोदरं नवाङ्गना यत्कटकेषु किंनरैः ।
अपत्रपन्ते बहिरासिताः सखीरवेक्ष्य नैर्मल्यवशादतिस्फुटम् ॥ ६८ ॥
बिभर्ति यः स्फाटिकराजतीस्तटीः कुटुम्बिनो यत्र धनेश्वरादयः ।
समः समृद्ध्या क इवास्य वर्तते प्रभुर्न भिक्षामटति स्वयं यदि ॥ ६९ ॥
शरार्कधुर्धूरवतीषु यत्तटे महेशपुष्पोपवनीषु रक्षिणः ।
स्वतःप्ररूढामपि जातु केतकीं न हि क्षमन्ते विषवल्लरीमिव ॥ ७० ॥
सुरसिद्धतापसगतागतोचितां
 
परिहृत्य तत्र पदवीं भगीरथः ।