This page has been fully proofread once and needs a second look.

३ सर्गः ]
 
गङ्गावतरणम् ।
 
प्रसूतिमीशानहरीन्द्रवेधसां प्रचक्षतेऽथर्वशिखागिरो यतः ।

विहाय सर्वानपि यस्य वन्द्यता विधीयतेऽथर्वशिखादिसूक्तिभिः ॥ ४६ ॥

प्रमाणमूर्धन्यपदाभिषेचिता यतश्चतस्रः श्रुतयोऽपि जज्ञिरे ।

किमुक्तिभिः स प्रणवोऽपि यत्पुरः प्रतीयतेऽथर्वशिरस्यनेकधा ॥ ४७॥

प्रभुं प्रशान्तं परमेश्वरं च यं भणन्ति कैवल्यगिरः परिस्फुटम् ।

यमेव विश्वाधिक इत्यनुश्रवाः प्रचक्षते कण्ठरवेण नापरम् ॥ ४८ ॥

यदाप्तिहेतोर्यतते जगत्त्रयी यदेव चाद्यं फलराजसाधनम् ।

तयैव देव्या स्वयमात्मविद्यया यदीयमर्धेधं वपुषो विभूषितम् ॥ ४९ ॥

सुखावहो यः किल शंभुशंकराद्यभिख्यया यो वपुषातिनिर्मलः ।

य एव सर्वज्ञ इति प्रघुप्ष्यते विशुद्धसत्त्वात्मकतां विभावय ॥ ५० ॥

तपोभिरल्पैर्दयते च देहिनां स देवदेवः शशिखण्डमण्डनः ।

दयापि सा देयमदेयमित्यमुं विभागमेव प्रथमं न बुध्यते ॥ ५१ ॥

इति क्षितीशं प्रतिबोधयन्नसावदीक्षयच्छाम्भवदीक्षया पुनः ।

ददौ च तस्मै विनताय तत्परं परिष्कृतं पञ्चभिरक्षरैर्मधुम् ॥ ५२ ॥

प्रविष्टमात्र श्रुतिसंपुटोदरः स मन्त्रराजः शशिखण्डपाण्डरः ।
 

तमांसि तस्य प्रबिभेद तत्क्षणं मनांसि यूनामिव मान्मथः शरः ॥ ५३ ॥

प्रतिप्रयाते जगतां पितामहे भगीरथः पूर्णमनोरथस्ततः ।
 

तपश्चरिष्यन्नतिदारुणं पुनर्गिरिं जगाम श्वशुरं पिनाकिनः ॥ ५४ ॥

मरुद्भिरेकान्ततुषारवर्षिभिर्मनोहरन्तीषु यदीयभूमिषु ।
 

नवाभिसारेऽप्यधरं मृगीदृशां विमुक्तशङ्कं त्व्रणयन्ति कामिनः ॥ ५५ ॥

कठोरसौरातपताप विद्रवत्तुषारवापीसलिलैकजन्मनाम् ।
 

सरोरुहाणां किमिवोपहन्यते हिमेषु वा यत्र हिमात्ययेषु वा ॥ ५६ ॥

हिमस्पृशां यन्मरुतां प्रसादतो विलासिनां मुग्धवधूरतेष्वपि ।

न शिक्षणीयाजनि जातु सीत्कृतिर्न चार्थनीया परिरम्भसान्द्रता ॥ ५७ ॥

पुराणवेणुव्यतिषङ्गसंभवं दवं यदीयाः शमयन्ति तत्क्षणम् ।

तदर्चिरूप्मग्लपितद्रवीभवत्तुषारसङ्घातमहाम्बुवृष्टयः ॥ ५८ ॥
 
३५