This page has been fully proofread once and needs a second look.

३४
 
काव्यमाला ।
 
अमुं पुमांसं परिहृत्य कोऽपरः प्रवर्ततामर्णवशोषकर्मणि ।

अमुं विना केन पुनर्महोदधावबन्धि सेतुः शतयोजनायतः ॥ ३३ ॥

महीधरैर्मन्दरगन्धमादनत्रिकूटहेमाचलरोहणादिभिः ।
 
IN
 
। '

अधारि तामप्यवहद्वसुंधरामयं न किं नाम पुरा स्वदंष्ट्रया ॥ ३४ ॥

विचारयामो यदि कर्म वैष्णवं किमस्त्यसाध्यं त्रिषु विष्टपेष्वपि ।

विचारयामो यदि वापि तां नदीं भरं क्व विन्यस्य विशङ्कमास्महे ॥ ३५ ॥

इदं तु सिद्धं हिमशैलनन्दना तथाविधैवास्तु ततोऽधिकापि वा ।

उपायवेदी मधुकैटभाहितस्तथापि किं किं न स साधयिष्यति ॥ ३६ ॥

न देवताभिर्न मृगैर्न मानुषैर्न वायुधैः संभवि यस्य नाशनम् ।

हिरण्यमीदृक्षमपि प्रतिघ्नतो न बुध्यते कैरपिं तस्य मायिता ॥ ३७ ॥

कथं कथं धिग्धिगिदं स्मृतिं गता कथा ममेयं पुरशासनाश्रया ।

पुराणिनी नन्वयमीदृशोऽपि सन्क्षणान्नृसिंहः शरभेण पातितः ॥ ३८ ॥

निवेद्यते यद्यपि तस्य विक्रमोंमो जलंधरान्धत्रिपुरस्मरादिभिः ।

तथापि बाणासुरसंगरे जनाः पठन्ति तस्यापि पराक्रमक्षतिम् ॥ ३९ ॥

अतो न किंचिद्व्यवसातुमीश्महे मतिं स्वकीयां परमास्थिता वयम् ।
क्च

क्व
कूपमण्डूकनिभा मतिर्नृणां क्व देवतातत्त्वविचारचातुरी ॥ ४० ॥

इति क्षितीशः प्रणिधानमाश्रितः क्षणं यदा यन्न मिमील लोचने ।

तदा विधिस्तस्य दृशोः पुरो भवन्प्रभावमैशं गदितुं प्रचक्रमे ॥ ११ ॥

कियत्यसौ तात वियन्नदी भवेत्कियन्ति सर्वाणि जगन्ति वा पुनः ।

स्व
यं यदि प्राक्तनपुण्ययोगतः स एव ते संरभते महीश्वरः ॥ ४२ ॥

यदंशलेशावतरस्य केलयो भवन्ति दक्षाध्वरशिक्षणादयः ।

पठन्ति तस्यैव पराक्रमक्षतिं न चेतना जातु कुतो विवेकिनः ॥ ४३ ॥

पुरा मुकुन्दाय तथा तपस्यते पुराहितस्वप्रतिपादितं वरम् ।

न पालयेद्वाबाणपुरे यदि स्वयं भजेदमुं पार्थिव देवतेति कः ॥ ४४ ॥

यदस्ति विश्वं क्रियते स्म येन तद्यतः स चाभूत्स च यत्र लीयते ।

स च स्वयं येन किलानुगृह्यते ततोऽप्यतीतं तदवैहि दैवतम् ॥ ४५ ॥