This page has not been fully proofread.

३२
 
काव्यमाला ।
 
अचिन्तयित्वा कृतिगौरवं विधेरपि त्यजन्ती करुणां शरीरिषु ।
पताम्यहं यद्यपि कुत्र वा भवन्भवान्निवापाञ्जलिमाचरिष्यति ॥ ७ ॥
पतेयमप्यर्थितसाधनाय ते निगृह्य वेगं निखिलं बलादहम् ।
परिप्लवाः क्षुद्रतया मदूर्मयः परं तु नेमे वचसि स्थिता मम ॥ ८ ॥
प्रदर्श्यतां कस्य पुरः पयोजवो निवेद्यतां वा नृप केवलं गिरा ।
न संनिकर्षे वडवामुखानलो न वा स योगी चुलुकीकृतार्णवः ॥ ९ ॥
विषादमभ्येमि भुवं पदे पदे विपद्यमानामनुचिन्त्य यद्यपि ।
तथापि नन्दामि चिरोपसंभृतां तरङ्गकण्डूमपनेप्यता त्वया ॥ १० ॥
प्रवेष्टुम श्रेण पथा रसातलं हठाद्विशन्त्याममरावतीं मयि ।
 
पुनः स्वहस्तार्पितचन्दनाङ्कितं शचीमुखं द्रक्ष्यति किं पुरंदरः ॥ ११ ॥
अपि प्रकृत्या यदचञ्चलं जलं तदप्यलं यां ग्रसितुं महोदधेः ।
पदं भवेन्नाम समग्ररंहसां मदम्भसां किं न्वियमेव मेदिनी ॥ १२ ॥
इति प्रसन्नं मधुरं च वाङ्मयं प्रवाहमात्मीयमिवोद्द्विरन्त्यसौ ।
क्षणं व्यरंसीदिव यं सुरापगा तमेव लेभे वचनक्षणं नृपः ॥ १३ ॥
ससर्ज यस्त्वां त्रिजगन्नियामकश्चतुर्मुखः सोऽपि यदि त्वमूर्मिभिः ।
अवापितस्तत्क्षणमात्मसंशयं कथैव का स्याज्जगतो विनश्यतः ॥ १४ ॥
महात्मतां यद्यपि ते महापगे न वेद वेधा न हरिर्न शंकरः ।
तथापि पौराणिकसंकथामुख । त्कियत्कियद्देवि गृहीतवानहम् ॥ १५ ॥
अतो न किंचित्प्रतिवक्तुमुत्सहे भवत्प्रवाहावतरोपपादकम् ।
परं तु मय्यम्ब दयोर्मिला दृशः पतन्तु ते किंचिदिति प्रसादये ॥१६॥
प्रसाद्यमाना मुहुरित्थमुक्तिभिर्भगीरथाय प्रससाद सा ततः ।
अपि स्वयात्रानुपपत्तिगोचरामनेन च प्रास्तुत संकथां मिथः ॥ १७ ॥
मदुक्तयुक्त्या नृपते मया विना प्रतिप्रयातुं यदि ते न रोचते ।
अनेन रूपेण परं रसातलं प्रवेक्ष्यते तर्हि भवत्कृते मया ॥ १८ ॥
सुरापगास्रोतसि पूर्वभूभुजां कदा प्रदास्यामि जलाञ्जलीनिति ।
तपस्यतो मे फलमस्ति किं त्वया प्रवाहरूपं परिहृत्य नीतया ॥ १९ ॥