This page has been fully proofread once and needs a second look.

३ सर्गः ]
 
गङ्गावतरणम् ।
 
भारतीपरिवृढस्य पुरस्ते वागियं न परिहासपदं किम् ।
 

नृत्यतः पुरहरस्य पुरस्तान्नृत्यतां स्थितिरिव प्रमथानाम् ॥ ६२ ॥

हुंकृतेन कपिलस्य महर्षेर्भस्मतामुपगताः पितरो मे ।

<error>स्व
र्गसिन्धुसलिलेप्विह</error><fix>स्वर्गसिन्धुसलिलेष्विह</fix> तेषामस्तु मत्करपुटेन निवापः ॥ ६३ ॥

तस्य प्रतिश्रुत्य तथेति देवः प्रदर्श्य गङ्गामपि पार्श्व एव ।

तिरोभवत्पश्यत एव तस्य <flag>वक्रैः</flag> समस्तागमवावदूकैः ॥ ६४ ॥

संव्यानमूर्मिलतिकाव्यतिषङ्गलब्ध-

फेनानुलेपमिव पाण्डरमावहन्तीम् ।

पश्यन्पुरस्तनुमतीं सुरलोकसिन्धुं
 

सिद्धं मनोरथममंस्त दिलीपसूनुः <error>६५ ॥
 
</error><fix>॥ ६५ ॥</fix>
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठ मतप्रतिष्ठापनाचार्य चतुरधिकशतप्रन्ध
 
-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण

नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते

गङ्गावतरणे भगीरथवरलाभो नाम द्वितीयः सर्गः ।
 

 
तृतीयः सर्गः ।
 

 
ततः प्रणामैः स्तुतिभिश्च पार्थिवं प्रसादयन्तं सुरलोकवाहिनी ।

जगाद सद्यो जगदण्डमण्डलं निमज्जयन्तीव वचोभिरेव सा ॥ १ ॥

प्रविष्टमात्रास्वपि मे रसातलं <error>प्रवाहनासीरतरङ्गपङ्किपु</error> <fix>प्रवाहनासीरतरङ्गपङ्किषु</fix>

पतेदलाबूफलकर्परोपमं विभिद्य विध्यण्डकपालसंपुटः ॥ २ ॥

मदम्बुसंपातविधूतकल्मषैर्महीश पूर्वैस्तव यत्र वत्स्यते ।
 

स एव लोको यदि मत्पयोजवात्पथि प्रलीयेत फलेत्तपस्तव ॥ ३ ॥

महर्षिरोषग्लपितान्समुद्धरन्महीभुजः कानपि लिप्ससे यशः ।

अवेक्षसे नैव <error>जगत्त्रयीजुपामकाण्डसंवर्तविधानपातकम्</error><fix>जगत्त्रयीजुषा मकाण्डसंवर्तविधानपातकम्</fix> ॥ ४ ॥

पतत्युदारे पयसांभरे मम प्रसह्य राजन्गिरिराजमौलिषु ।

समुत्पतच्छीकरवर्षदुर्दिनं चतुर्मुखो धाम किमावसेन्निजम् ॥ ५ ॥

ससर्ज कल्पादिषु विष्टपत्रयीं स योगमास्थाय कियन्तमात्मभूः ।

कथावशेषीक्रियतां मया पुनः कथं पतामीति गिरकयैव सा ॥ ६ ॥