This page has not been fully proofread.

३०
 
काव्यमाला ।
 
अन्नमन्यदवमन्य यमेकं सेवते सुलभ इत्यहिलोकः ।
सोऽपि नैव सुलभो मरुदासी हुर्जयो जगति दैवनियोगः ॥ ४९ ॥
प्राणिमात्रपरिजीवनहेतोः शत्रवस्त्रय इमे पवनस्य ।
 
॥ शुष्कतापसनिदाघभुजंगास्ते पतन्ति निरये व न विद्मः ॥ ५० ॥
उष्णमम्बु रविरुग्रमयूखः सान्द्रमुर्मुरकिरश्च समीराः ।
 
भूः पफाल पुनराः कथमासीत्पान्थपातकिदशापरिपाकः ॥ ५१ ॥ १
स्वापकालमनुपाल्य गुरूणां विप्रलभ्य च चिरेण सपत्नीः ।
प्रस्थितासु कुलटारूपि घर्मैः पातकी किमपि नानुचकम्पे ॥ ५२ ॥
वारिविभ्रममहोत्सवदानैर्ये पुरा परिचचार निदाघः ।
 
तापमस्य विततार तदासौ किं भिदा न धनिनां कृपणेभ्यः ॥ ५३ ॥
तौ परस्परमहःपरिणामस्पर्धयेव नृपतिः सविता च ।
गाढयौवनमुपेयुषि घर्मे दुर्निरीक्ष्यतरतामवहेताम् ॥ ५४ ॥
स्नातुमम्बु न कुतश्चन लभ्यं पातुमस्ति न कथाप्यनिलस्य ।
स्थातुमास्त यमिनां तरुमूलं दूषितं तदपि दावशिखाभिः ॥ ५५ ॥
यावदित्यमधिकोऽजनि घर्मस्तावदस्य तपसा विजजृम्भे ।
तद्विपाकचकिता दिवि देवास्तापमापुरवनेरपि तीव्रम् ॥ ५६ ॥
तिष्ठतस्तपसि तस्य कठोरे काङ्कतश्च सुरसिन्धुनिपातम् ।
वासरा निमिषवत्समतीयुर्वासरा इव समांश्च सहस्रम् ॥ ५७ ॥
तं कदाचिदुपसृत्य विरिञ्चस्तस्य दृष्टिपथमप्युपगम्य ।
अर्थ्यतामभिमतं वितरामीत्याह वाग्भिरमृतस्त्रपिताभिः ॥ ५८ ॥
तत्क्षणं प्रमुदितः क्षितिपालस्तन्निशम्य वचनं द्रुहिणस्य ।
स्तोतुमारभत चारणलोकस्तूयमानचरितः खयमेनम् ॥ ५९ ॥
त्वत्प्रसूतमवतो हरतोऽपि स्यादुपासनविधिर्यदि धातः ।
त्वं कियत्कियदिवासि न वन्द्यस्तत्त्वदर्शनपरैर्मतिमद्भिः ॥ ६० ॥
त्वादृशा जनिमता शयितव्यं त्वादृशा च ननु जागरितव्यम् ।
यत्र हि खपिति नश्यति लोको यत्र जीव्यति पुनः समुदेति ॥ ६१॥