This page has been fully proofread once and needs a second look.

२८
 
काव्यमाला ।
 
आश्रमं नगरमासनदर्भान्भद्रपीठमुटजं मणिवेश्म ।

संभ्रमाद्व्यवहरन्क्षितिपालोऽलज्जत
 
त्रिचतुराणि दिनानि ॥ २३ ॥
 

स क्षणादजयदासनभेदाञ्शिक्षणाच्चिरतरं खुरलीषु ।

जानता निखिलमभ्यसितव्यं कस्य कुत्र न भवेदुपयोगः ॥ २४ ॥

अत्यशेत स मुनीनपि दिव्यान्वासरैः कतिपयैर्वसुधेशः ।

संस्तवे भवतु नाम विलम्बः संस्तुतं मतिमतां किमसाध्यम् ॥२५॥

किं स पूर्वमपि नाजयदक्षान्किकिं तु वा न ववृते शुचिरेवम् ।

तस्य केव तपसा परिहानिः प्रत्युतैष न ररक्ष तदोर्वीम् ॥ २६ ॥

स्वं च राज्यमपहाय सतोऽस्य स्वर्गराज्यमिति तत्कियदास्ते ।

तद्विदञ्छतमखो न शशङ्के तत्तपश्चरणतः कणशोऽपि ॥ २७ ॥

बाहुजोऽयमथ भानुकुलीनस्तत्र चाप्रतिभटः स्वमहिम्ना ।

तावतापि तपसा यदि युक्तस्तत्समीक्षितुमपि क्षमते कः ॥ २८ ॥

यद्गजेषु तुरगेषु भटेषु <error>क्षोणिपु </error><fix>क्षोणिषु</fix>क्षितिपतिष्वपि सक्तम् ।

तन्मनस्तत इतोऽपि विकृप्ष्य स्थापितं तपसि तेन कठोरे ॥ २९ ॥

नान्नमाद्रियत नाम्बु न मूलं का भविष्यति कथापि फलानाम् ।

मारुतं परमभुङ्क्त निदाघस्तं च हर्तुमिव तस्य तदाभूत् ॥ ३० ॥

चण्डमारुतचलन्मृदुघासग्रासलालसतया गतिमान्द्यम् ।

प्रस्तुवत्यहिमभानुतुरङ्गे द्राघिमाणमलभन्त दिनानि ॥ ३१ ॥

तापमा तपतरङ्गितमुच्चैः क्षन्तुमक्षमतया दिनलक्ष्मीः ।

किं चिरायति निशेति वितीर्णोद्राहिकेव वपुरायतमूहे ॥ ३२ ॥

वक्रचंक्रमणवल्गनघाटीमण्डलभ्रमणमन्दगतानि ।

सादिनः स्वयमशिक्ष्यत धर्मात्तुन्दिलो मदनजैत्रतुरंगः ॥ ३३ ॥

आरुरोह गिरिमाप वनान्तान भ्रमीदनुदिशं परिधाव्य ।

अग्रहीदपि तृणानि समीरो निग्रहैकरतिभाजि निदाघे ॥ ३४ ॥

भानुभिः प्रलयपावकतीत्व्रैरापिबत्युदकमम्बुजबन्धौ ।

दूरदूरमपदिश्य मरीचीर्दुद्रुवुर्दिशि दिशीव सरस्यः ॥ ३५ ॥