गङ्गावतरणम् /35
This page has been fully proofread once and needs a second look.
गङ्गावतरणम् ।
१० ॥
नार्हतीश्वरमियं तु
उद्यतां किमपि वक्तुमथैनां गर्वितां कमलभूरुपलभ्य ।
शापमित्थमसृजज्जलरूपा सद्य एव भवती भवितेति ॥ ११ ॥
सा ततो गिरिसुताकलयन्ती तं च निग्रहमनुग्रहमेव ।
ऊर्मिभिः प्रलयसागरघोरैरुत्पपात कवलीकरणाय ॥ १२ ॥
२७
अप्रतर्कितविधेयमपोढस्थैर्यमर्धविरतश्रुतिपाठम् ।
शुष्कतालु
सावलेपनिपतत्सुरसिन्धु
सर्वतः स निगमान्किल सेतूनाबबन्ध चतुरश्चतुरोऽपि ॥ १४ ॥
सा च वामनपुराणवचोभिः स्पष्टमेव विवृता विदिता ते ।
नागलोकमवतार्य नदीं तां देयमम्बु सगरात्मभवेभ्यः ॥ १५ ॥
आशरीरपतनं व्रतचर्यामाचरन्नपि सुपर्णवचोभिः ।
अभ्रसिन्धुमवतारयितुं तामंशुमानपि शशाक न धीरः ॥ १६ ॥
तत्सुतोऽपि न ददर्श दिलीपस्तत्समानयनकर्मणि योगम् ।
दृष्टिमत्र निदधासि यदि त्वं सिद्धिमेति नियमादयमर्थः ॥ १७ ॥
इत्थमूचिषि मुनौ करणीयं निश्चिकाय न तु तं निजगाद ।
<error>सिद्धमप्यभिलपन्ति</error><fix>सिद्धमप्यभिलषन्ति</fix> न सन्तः का प्रसक्तिरपि साधयितव्ये ॥ १८ ॥
सेत्स्यतीति यदवादि भवद्भिः सिद्धमेव तु ततोऽभिमतं नः ।
इत्युदीर्य स विसृष्टसमाजः पार्थिवः प्रतिययाववरोधम् ॥ १९ ॥
सोऽथ जातु नृपतिः परितुष्टादाशिषं समधिगम्य वसिष्ठात् ।
निर्ययौ सुरनदीमुपनेतुं न्यस्य राज्यमखिलं सचिवेषु ॥ २० ॥
तीरसीमनि स दक्षिणसिन्धोराश्रमं कमपि संपरिकल्प्य ।
आरराध नियमैरतिमात्रैर्देवमम्बुजभवं नरदेवः ॥ २१ ॥
हेमकुम्भसलिलैरभिषिक्तो मौलिरस्य मुनिवेषधरस्य ।
वीचिकासु लवणासु पयोधे