This page has not been fully proofread.

२६
 
काव्यमाला ।
 
साम्राज्यं यदि सप्तमार्णवतटी विश्राम्यदाज्ञाक्षरं
 
सौन्दर्य यदि मुद्रिताः स्मरगिरः सा चेन्मतिः को गुरुः ।
शौर्य चेत्पुनरन्यदेव तदिति स्तोत्रं विचित्रं सतां
'शृण्वन्नेव भगीरथक्षितिपतिर्निन्ये सहस्रं समाः ॥ ८६ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठ मतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षित पौत्रेण
 
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे कथावतारो नाम प्रथमः सर्गः ।
 
द्वितीयः सर्गः ।
पौरजानपदपार्थिवलोकप्रस्तुतस्तुतिवचोमुखरायाम् ।
 
जातु संसदि निषद्य सुहृद्भिः संलपन्नतिनिनाय स कालम् ॥ १ ॥
स प्रसङ्गकृतसंगति वक्तुं प्रस्तुतं किमपि बान्धववृद्धैः ।
सावधानमशृणोदपदानं सर्वमेव सगरात्मभवानाम् ॥ २ ॥
अश्वमेधमकरोत्सगरो यद्यच्च तत्र तनया विनियुक्ताः ।
अन्वयुर्यदपि ते तुरगं तं यच्च तं शतमखोपजहार ॥ ३ ॥
यत्ततः सगिरिकेतुवनान्ता तैर्व्यचीयत मही निखिलेयम् ।
यच्च तैः पितृवचोऽनुसरद्भिः सिन्धुरेव समखन्यत भूयः ॥ ४ ॥
मन्दिरं फणभृतामवतेरुः सागरोदरपथेन च ते यत् ।
पादकर्णसमवायत एवं प्राकृतैः फणिभिरद्भुतदृष्टाः ॥ ५ ॥
तं तुरंगमपि यद्ददृशुस्ते तापसस्य कपिलस्य समीपे ।
चोर इत्यमुमभिद्रवतां यद्भस्मतामदित हुंकृतिरस्य ॥ ६ ॥
अंशुमानपि समेत्य हयं तं यच्चकार सगराध्वरपूर्तिम् ।
सर्वमेतदवकर्ण्य स वीरो विस्मितोऽजनि विषण्णमुखश्च ॥ ७ ॥
दातुमम्बुपरिपारणमेषां कोऽभ्युपाय इति पृच्छति तस्मिन् ।
संनिकर्षमुपसृत्य वसिष्ठः शंसति स्म जगतः सुकृतेन ॥ ८ ॥
कन्यकास्ति कुटिलेति हिमाद्रेर्ज्यायसी स्मरणतोऽप्यघहन्त्री ।
शंकराय वितरीतुममर्त्याः सत्यलोकमनयन्त शिशुं ताम् ॥ ९ ॥