This page has been fully proofread once and needs a second look.

१ सर्गः ]
 
गङ्गावतरणम् ।
 
स्रस्तमंसतलात्पान्थैः संव्यानमपि वर्त्मसु ।
 

सातङ्कमाददे भूयस्तरद्भिस्तस्य शासनम् ॥ ७५ ॥

अख्यातपूर्वविजयानतृणीकृतजीवितान् ।

अक्षत्रियानयूनश्च न स संजगृहे भटान् ॥ ७६ ॥

अवितीर्णमहाग्रामैरकृतस्वर्णवृष्टिभिः ।

कटाक्षैर्न बभूवेऽस्य कविवत्क्रनिपातिभिः ॥ ७७ ॥

संग्रामाङ्गणमारूढः स समक्षं विरोधिनाम् ।

तिरस्कारमिवामंस्त चापस्यापि शिरोनतिम् ॥ ७८ ॥

प्रददावेव सोऽर्थिभ्यः प्रतिजग्राह न क्वचित् ।

वासवादसकृद्वृष्टिं लिप्समानस्त्वलज्जत ॥ ७९ ॥

सायाहाह्नापचयेनापि मर्यादां लङ्घतेऽर्णवः ।
 

स तु तावत्प्रवृद्धोऽपि मर्यादां नात्यलङ्घत ॥ ८० ॥

दातुं प्रवृद्धश्चन्द्रोऽपि पक्षे पक्षेऽपचीयते ।

स तु भूयोऽप्यवर्धिष्ट संततं वितरन्नृपः ॥ ८१ ॥
 
२५
 

पदं किमेतावदुदारतोचितं प्रयुज्य शंसेयममुष्य दातृताम् ।

पदेषु यत्प्रत्यय एव नाशितः प्रयोगशूरैः कविभिः समन्ततः ॥ ८२ ॥

यदस्य युद्धेषु महत्कुतूहलं य उद्यमो यत्प्रतिपालनं च वा ।
 

इदं किमङ्ग श्रुतमीक्षितं नु वा महीभुजोऽन्यस्य <error>महोत्सवेप्वपि</error> <fix>महोत्सवेष्वपि </fix>॥ ८३ ॥

एकैकां क्रमभाविनीमपि कलामिन्दोः समाखाद्य यैः

कण्ठोळीद्ग्रीवितजीवितैर्निरवधिः कालः कथंचिज्जितः ।

तैरेवोदरपूरमध्वरहविः स्फारं तदावर्जितं

भुञ्जानैस्त्रिदशैरधारि जठरप्रायं तदानीं वपुः ॥ ८४ ॥

परिज्ञातं तत्त्वं निखिलमपि विद्यासु विदुषां
 

परिज्ञातं भूयः परिषदि सतां श्लाघितमपि ।
 

फलैर्योक्तुं तत्तत्क्रमसमुचितैः श्लाघितमपि
 

प्रगल्भः कोऽन्यः स्यात्रिभुवनवदान्यो यदि न सः ॥८५ ॥