This page has not been fully proofread.

१ सर्गः ]
 
गङ्गावतरणम् ।
 
स्रस्तमंसतलात्पान्थैः संव्यानमपि वर्त्मसु ।
 
सातङ्कमाददे भूयस्तरद्भिस्तस्य शासनम् ॥ ७५ ॥
अख्यातपूर्वविजयानतृणीकृतजीवितान् ।
अक्षत्रियानयूनश्च न स संजगृहे भटान् ॥ ७६ ॥
अवितीर्णमहाग्रामैरकृतवर्णवृष्टिभिः ।
कटाक्षैर्न बभूवेऽस्य कविवक्रनिपातिभिः ॥ ७७ ॥
संग्रामाङ्गणमारूढः स समक्षं विरोधिनाम् ।
तिरस्कारमिवामंस्त चापस्यापि शिरोनतिम् ॥ ७८ ॥
प्रददावेव सोऽर्थिभ्यः प्रतिजग्राह न कचित् ।
वासवादसकृद्वृष्टिं लिप्समानस्त्वलज्जत ॥ ७९ ॥
सायाहापचयेनापि मर्यादां लङ्घतेऽर्णवः ।
 
स तु तावत्प्रवृद्धोऽपि मर्यादां नात्यलङ्घत ॥ ८० ॥
दातुं प्रवृद्धश्चन्द्रोऽपि पक्षे पक्षेऽपचीयते ।
स तु भूयोऽप्यवर्धिष्ट संततं वितरन्नृपः ॥ ८१ ॥
 
२५
 
पदं किमेतावदुदारतोचितं प्रयुज्य शंसेयममुष्य दातृताम् ।
पदेषु यत्प्रत्यय एव नाशितः प्रयोगशूरैः कविभिः समन्ततः ॥ ८२ ॥
यदस्य युद्धेषु महत्कुतूहलं य उद्यमो यत्प्रतिपालनं च वा ।
 
इदं किमङ्ग श्रुतमीक्षितं नु वा महीभुजोऽन्यस्य महोत्सवेष्वपि ॥ ८३ ॥
एकैकां क्रमभाविनीमपि कलामिन्दोः समाखाद्य यैः
कण्ठोळीवितजीवितैर्निरवधिः कालः कथंचिज्जितः ।
तैरेवोदरपूरमध्वरहविः स्फारं तदावर्जितं
भुञ्जानैस्त्रिदशैरधारि जठरप्रायं तदानीं वपुः ॥ ८४ ॥
परिज्ञातं तत्त्वं निखिलमपि विद्यासु विदुषां
 
परिज्ञातं भूयः परिषदि सतां श्लाघितमपि ।
 
फलैर्योक्तुं तत्तत्क्रमसमुचितैः श्लाघितमपि
 
प्रगल्भः कोऽन्यः स्यात्रिभुवनवदान्यो यदि न सः ॥८५ ॥