This page has been fully proofread once and needs a second look.

क्व नु नाम सभा राज्ञां दुराक्षेपैकशिक्षिता ।
क्व नु वाचः सुधीलोकलालनैकरसाः कवेः ॥ २३ ॥
 
व्यङ्क्तुमस्फुरतो दोषान्भङ्क्तुमुत्स्फुरतो गुणान् ।
ईर्ष्ये भगवति ब्रूहि का त्वदन्यां प्रगल्भताम् ॥ २४ ॥
 
किं मदक्ष्णोरयं दोषः किं तद्वस्त्वेव तादृशम् ।
कामं यन्मौलिरज्ञानां कम्पते कविसूक्तिषु ॥ २५ ॥
 
पुष्णन्तु स्वेति मधुरां परस्यापि कृतिं जनाः ।
स्वोतिभिर्यत्क्वचित्कर्णौ दहन्ति तदरुंतुदम् ॥ २६ ॥
 
स्तुत्यं न स्तुवते मूढाः पद्यं यत्तन्न दारुणम् ।
अपदे यत्प्रशंसन्ति तन्मे मर्माणि कृन्तति ॥ २७ ॥
 
जानीमो ज्यायसीं लक्ष्म्या जातु ते न तु शारदे ।
आः स्मृतं ननु सा वक्त्रेष्वास्ते दुष्कविसंसदाम् ॥ २८ ॥
 
न यदाह मनुर्वध्यान्न च नासृजदब्जभूः ।
न वान्तकः कविंमन्यान्नयते तन्मदंहसा ॥ २९ ॥
 
आमये यमके जाग्रत्यपमृत्यौ च दुष्कवौ ।
वाणि प्राणिषि तन्मन्ये वज्रेणैवासि निर्मिता ॥ ३० ॥
 
नाहमासं नृपः स्यां चेन्ननु कुर्यो तथा महीम् ।
विचिन्वतापि नेक्ष्यन्ते यथा दुष्कविताङ्कुराः ॥ ३१ ॥
 
पातिव्रत्यक्रमः कोऽयं प्राणभङ्गावधिस्तव ।
सर्गतः कविपाशानां शारदे वारय प्रियम् ॥ ३२ ॥
 
दूयामहे दुष्कविभिर्दत्तकर्णज्वरा वयम् ।
न वा वदामो वाग्देवि ननु त्वमपि तैर्हता ३३ ॥
 
विज्ञप्तिः श्रूयतामेका विधातः करुणा यदि ।
मूकान्सृज कविंमन्यान्बधिरान्विदुषोऽथवा ॥ ३४ ॥
 
जना नीराजनीयास्ते जानन्ति स्वयमेव ये ।
कथंचिदपि वा सर्गैः काव्यमङ्कैश्च नाटकम् ॥ ३५ ॥