This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
काव्यमाला ।
 
</ignore>
<subtitle lang="sa">
श्रीनीलकण्ठदीक्षितप्रणीतं
 
</subtitle>
<title lang="sa">
गङ्गावतरणम् ।
 
</title>
<heading lang="sa">
प्रथमः सर्गः ।
 
</heading>
<verse lang="sa">
अद्भुतं किमपि द्वन्द्वमस्तु तन्मम शर्मणे ।
स्वस्तिकस्तनुते यस्य सुदृढाश्लेषनिर्वृतिम् ॥ १ ॥
</verse>
<verse>
व्यासमेव स्तुमो यस्य वाचं गणयितुं विधिः ।
विषीदति वृषाङ्केण विलूने पञ्चमानने ॥ २ ॥
</verse>
<verse>
कान्तः सहृदयो वाचः कविरेव[^<ref>]</ref> चिरंतनः ।
जडे जगति येनैव च्छन्दः प्रागन्वरुध्यत ॥ ३ ॥
</verse>
<verse>
कवितामफलद्वीटी कालिदासमुखेऽर्पिता ।
पत्युर्मुखे तु सा गौर्याः परुषं निगमाक्षरम् ॥ ४ ॥
</verse>
<verse>
ना[^<ref>]</ref>रायणाध्वरीन्द्राय नमोऽस्तु ज्ञानसिन्धवे |
शारदा यत्कटाक्षाणां साप्यवेतनकिंकरा ॥ ५
॥</verse>
<verse>
कल्पनेत्यस्ति तत्किंचित्कविलोकस्य जीवितम् ।
प्रविश्येव गृहीतं यद्भारत्याः कोशमन्दिरात् ॥ ६ ॥
</verse>
<verse>
स संदर्भ: कवीन्द्राणां शारदा यं पदे पदे ।
श्लाघते विस्मयावेशस्मेरमन्थरया दृशा ॥ ७ ॥
</verse>
<verse>
शीलिते कविलोकेन सिद्धे ब्रह्मणि वाङ्मये ।
पामराः कलहायन्ते पश्यास्मिन्नन्यथान्यथा ॥ ८ ॥
</verse>
<verse>
अस्ति सारस्वतं चक्षुरज्ञातस्वापजागरम् ।
गोचरो यस्य सर्वोऽपि यत्स्वयं कर्णगोचरः ॥ ९ ॥
 
[^
</verse>
<footnote mark="
१.] " lang="sa">आदिकविः वाल्मीकिः
[^
</footnote>
<footnote mark="
२.] ">नारायणाध्वरीन्द्रः कवेः पिता.
 
</footnote>
</page>