This page has not been fully proofread.

१८
 
*
 
अयं किल भरद्वाजकुलपारावारपारिजातः सकलसाम्राज्यसिंहासनाधिपतिस्तत्रभवतः
श्रीमतो नारायणाध्वरिणस्तपःपरिपाकः कर्ता काव्यानां व्याक्ती तन्त्राणां आहती ऋतूनां
व्याहर्ता सकलनृपसभेषु दिगन्तर विश्रान्तकीर्तिरपारमहिमा मानवाकृतिः साक्षादेव दाक्षा-
यणीवल्लभः श्रीकण्ठमतसर्वस्ववेदी श्रीनीलकण्ठाध्वरी । * * एष खलु द्वितीयशं-
कररूपाणामप्पयदीक्षितानां नप्ता नलचरितनाटकप्रवन्दा ।
नटी – को णु किंणामहेओ एअ णाडअप्पणेदा ।
 
सूत्रधार : नन्वस्यैव सभानेतुरनुजन्मा विदितवेदितव्यः कविलोकमित्रमतिरा-
त्रयाजी ।
* स किल प्रतिरघुवंशादिकर्तेति रसिकगोष्ठीषु जोघुष्यते ।'
 
(४) शब्दचित्रस्वरूपभेदप्रतिपादक' चित्ररत्नाकर' ग्रन्थस्य रुक्मिणीपरिणय-जानकीप-
रिणय - गौरीपरिणय - द्रौपदीपरिणयादीनां नाटकानां च कर्ता श्रीचक्रकविः ।
चित्ररत्नाकरे-
'श्रीलोकनाथं जनकं रामचन्द्रं पतञ्जलिम् ।
नत्वाग्रजं च क्रियते चित्ररत्नाकरो मया ॥
रुक्मिणीजानकी गौरी द्रौपदीपरिणीतयः ।
कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः शुभा ॥'
 
तस्यैव ग्रन्थस्यावसाने -
 
'पुत्रं चक्रकविं गुणैकवसतिः श्रीलोकनाथः सुधी-
रम्मा चाजनयत्सतीजननुता यं मानितं सज्जनैः ।
षष्टस्तस्य कृतावजायत परिच्छेदो नुते पाण्ड्यराट्-
चोलोर्वीपतिनीलकण्ठमखिभिः श्रीचित्ररत्नाकरे ॥" इति ॥
 
टी. एस्. कुप्पुस्वामिशास्त्री ।
तञ्जर् ।