This page has not been fully proofread.

तातकारुण्यसंप्राप्तज्ञानभक्तिरसामृतम् ।
यतिराजाह्वयं वन्दे देशिकं दिव्यदर्शनम् ॥ २ ॥
यतिराजगुरोः सूनुं पाषण्डमतखण्डनम् ।.
आचार्यपद्मनाभाख्यं भवसंतारकं भजे ॥ ३ ॥
नमो रामानुजार्याय वेदान्तार्थप्रदायिने ।
आत्रेयपद्मनाभार्यसुताय गुणशालिने ॥ ४ ॥
रामानुजार्यसंप्राप्तसर्वविद्यासमृद्धये ।
पद्मनाभाय महते तत्सुताय नमो नमः ॥ ५ ॥
पद्मनाभगुरोः सूनुं तत्कृपावाप्तवैभवम् ।
पुरुषोत्तममाचार्य गुणसिन्धुमुपास्महे ॥ ६ ॥
तातपाददयापात्रं मायावादतमोरविम् ।
व्याख्यातन्यायकुलिशं नरसिंहार्यमाश्रये ॥ ७॥
नृसिंहदेशिकावाप्तज्ञानविज्ञानसंपदे ।
 
आत्रेयशठकोपाय नमो वैराग्यसिन्धवे ॥ ८ ॥
 
श्रीशठकोपपदाम्बुजभृङ्गं तत्करुणेक्षणलम्भितबोधम् ।
देशिकमत्रिकुलाम्बुधिचन्द्रं नौमि नृसिंहमनन्तगुणाब्धिम् ॥ ९ ॥
श्रीमन्नृसिंहार्यसुतं महान्तं वेदान्तयुग्मव्यवहारशीलम् ।
आचारहेतुं करुणापयोधिं वन्दे वदान्यं पुरुषोत्तमार्यम् ॥ १० ॥
पुरुषोत्तमपादाब्जसेवासंप्राप्तसंपदे ।
 
नमः श्रीवेङ्कटेशाय गुरवे भक्तिसिन्धवे ॥ ११ ॥
पराङ्कुशशठारातिकृपासंप्राप्तसंपदम् ।
 
श्रीवेङ्कटेशतनयं श्रीनिवासार्यमाश्रये ॥ १२ ॥" इति ।
 
-
 
(३) कवेरस्य नीलकण्ठमखीन्द्रस्यानुजन्मा कुशकुमुद्वतीयनाटकस्य प्रबन्द्धा प्रतिरत्रु-
वंशादिकर्ता अतिरात्रयज्वा ।
 
कुशकुमुद्वतीयनाटके-
'विद्वद्वादविवादकालयुगपद्विस्फूर्त्यहंपूर्विका-
निर्ययुक्तिसहस्रदर्शितनिजाहीन्द्रावताराकृतिः ।
कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यलं
भूष्णुर्भाति सभासभाजितमतिः श्रीनीलकण्ठाध्वरी ॥
 
१०. (तत्सुतः) वेङ्कटेशः
११. (तत्सुतः) श्रीनिवासः
 
१२. (तत्सुतो रामचन्द्रोदयकाव्यस्य कविः) वेङ्कटेशः ।