This page has not been fully proofread.

१६
 
'अब्भ्रपूर्णगुणपावनपद्यं व्योमवह्निसमसर्गमुदारम् ।
काव्यमङ्गगुणशैलयुगाब्दे वेङ्कटोऽकृत कलौ कविवर्यः ॥'
 
[ व्याख्या - अभ्रपूर्णगुणपावनपद्यं आकाशवत् पूर्णगुणानि पावनानि पद्यानि यस्य ।
त्रिंशताधिकत्रिसहस्रपद्यमित्यर्थः । ३०३० । व्योमवह्रिसमसर्ग व्योमवत् निर्मला: वाह्नव-
दुज्वलाः सर्गाः यस्मिन् तत् । त्रिंशत्सर्गमित्यर्थः । तत् काव्यम् । कलौ अङ्गगुणशैलयुगाब्दे
सति षट्त्रिंशदधिकसप्तशताधिकचतुःसहस्रवर्षे सति । वेङ्कटः कविः । अकृत प्रणीतवान् ॥]
 
'षट्त्रिंशदत्र वृत्तानि छन्दांसि तु चतुर्दश ।
खार्कप्राणा इह श्लोका अनुष्टुप्संख्यया मताः ॥
आत्रेयश्रीनिवासाह्वयगुरुतनयः काव्यरत्नं व्यतानी-
त्सीतानाथप्रसादप्रकटितधिषणो रामचन्द्रोदयाख्यम् ।
आ सीतेशाभिषेकाडुदितशुभकथं त्रिंशता यत्तु सगैं-
स्तस्मिन्रामाभिषेकाभ्युदयशुभकथस्त्रिंश आभाति सर्गः ॥
'धृतितिथि (१५१८) मिते शकाब्दे संजातेनोपकाश्चि मयकेन ।
काशीं गतेन क्लृप्तं काव्यं मुनिबाणतिथि (१५५७)मिते हि शके ॥'
ग्रन्थस्यास्य व्याख्याने च-
'नृसिंहार्यपौत्रस्य पौत्रः कवीन्द्रस्तथा वेङ्कटेशार्यपौत्रः प्रसिद्धः ।
स्वयं श्रीनिवासार्यसूनुः स्वकाव्यं लघु व्याख्यदाप्त.. • वेङ्कटेशः ॥
धृतितिथिमिते शकाब्दे जनिमानुपकाञ्चि वेङ्कटेशकविः ।
काव्यमिदं व्याचष्ट स्वयमेव सतां नियोगमासाद्य ॥'
 
ग्रन्थान्ते च -
 
'यतीन्द्रकरुणापात्रं तन्महानसकिंकरम् ।
आत्रेयप्रवरं नौमि प्रणतार्तिहरं गुरुम् ॥ १ ॥
 
१. रामचन्द्रोदयकाव्यस्य कर्तुर्वेङ्कटेशस्य परम्परा-
यतिराजः
 
१.
 
२. (तत्सुतः) पद्मनाभः
३. (तत्सुतः) रामानुजार्यः
४. (तत्सुतः) पद्मनाभः
 
५. (तत्सुतः) पुरुषोत्तमः
६. (तत्सुतः) नरसिंहार्यः
१७. (तत्सुतः) शठकोपः
८. (तत्सुतः) नृसिंहः
९. (तत्सुतः) पुरुषोत्तमः