This page has not been fully proofread.

१५
 
रीतौ । अयं रघुनाथभूपालाल्लव्धजीवनो रघुनाथभूपविजय - रघुनाथविलासनाटक-साहिल-
रत्नाकरकाव्यादिकांस्तमेव राजानमधिकृत्य निर्ममे ग्रन्थान् । ददावस्मै यज्ञनारायणदीक्षि-
ताय कर्णाभरणं निजं पतकं पादाङ्गदं कङ्कणं च रघुनाथभूपालः । अयं स्वयमाध्वर्य
चकार स्वपितृकृते आप्तवाजपेयनाम्नि सप्ततन्तुवरे । अस्य समकालिकाः पण्डितम-
णयः – (१) विधुतालंकारिकविबुधाहंकारः कृष्णयज्वा, (२) डिण्डिमकुलमण्डनः
पण्डितशिखामणिः सोमनाथः, (३) पारिजातनाटकस्य प्रबन्द्धा रघुनाथभूपालाश्रितः
कुमारताताचार्यश्च ।
 
श्रीवेङ्कटेश्वरमखिनः कृतिषु – (१) टुप्टीका व्याख्यानं वार्तिकाभरणम्, (२) कमीत-
मीमांसाया व्याख्या कर्मान्तनिबन्धदीपिका इत्युभे एव केवलमिदानीं नामतः परि-
ज्ञायेते । चोदितोऽनेनैव रचयामास तन्त्रशिखामणि श्रीमान्राजचूडामणिदीक्षितः
प्रख्यातः कर्ता काव्यदर्पणस्य ।
 
श्रीनीलकण्ठमखीन्द्रस्य समकालिका विद्वन्मणयः-
(१) श्रौतधर्म इव मूर्तिमान् मान्यश्चोक्कनाथमखीन्द्रः । अयं कौशिकगोत्रोद्भवः । द्वाद-
शाहादियज्वनो नारायणदीक्षितस्य गणपत्यभिधायां सहधर्मिण्यां समुत्पन्नः । प्रख्यातनाम्नो
रामभद्रमखीन्द्रस्य श्वशुरः पदविद्यागुरुश्च । अद्याप्यस्य वंशीयेषु तत्संबन्धिनां च संदृ-
श्यते कन्यकावपि गणपतीति नामकरणम् । शब्द कौमुदी - धातुरत्नावली-भाष्यरत्नावल्य
इदानीमस्य समुपलभ्यमानाः कृतयः । त्रिशिरःपुरस्य प्रान्ते मुत्तरशनल्लूराख्यग्रामे पुदुक्को-
राज्ये पिन्नङ्गुडिनाम्नि च ग्रामेऽन्यत्र च नदीतीरेषु वृत्त्यर्थमस्य कल्पयामासुरुत्तमक्षे-
त्राणि तत्र तत्र तदानींतना राजान इति पुराविदः पण्डिताः । भाष्यरत्नावल्याम्-
'धातारं सूत्रकारं शिवनुतिसहितं पाणिनिं वाक्यकारं
 
विष्णुं कात्यायनं तं गिरिशमहिवराधीश्वरं भाष्यकारम् ।
तातं नारायणं श्रीगणपतिमपि तां मातरं सादरं ता-
नाचार्यान्सर्वतन्त्रप्रणयन निपुणानानमेः कर्म कुर्मः ॥
 
-
 
*
 
-
 
धीमद्वाक्यपदप्रमाणगहनप्रच्छादितोच्चावच-
स्फीतार्थप्रतिपादनातिनिपुणः श्रीनीलकण्ठाध्वरी ।
यं भाष्यप्रकटीकृतौ पटयते द्वेधार्थदानात्कृती
 
तस्यान्ये सुधियः कथं न विमलाः पुष्णीयुरर्थप्रदाः ॥" इति ।
(२) श्रीरामचन्द्रोदयमहाकाव्यस्य कर्ता स्वयमेव तद्व्याख्याता च महाकविः श्रीवैष्णवः
श्रीवेङ्कटेश्वरः । अयं गतेषु १५१८ संख्याकेषु शालिवाहनशकाव्देषु, तथा १५९५-९६
ख्रिस्ताब्देषु काञ्चीनगरसमीपे श्रीनिवासार्यतो जनिमुपगतः । अयमतीतेषु ४७३६ कल्यब्देषु
तथा गतेषु १५५७ शालिवाहनशकाब्देषु स्वस्य चत्वारिंशे वयसि काशीं गत्वा तत्रैव
काव्यमिदं समग्रन्थयत् । तथा च रामचन्द्रोदयमहाकाव्ये -