गङ्गावतरणम् /21
This page has not been fully proofread.
१३
अनेन नीलकण्ठ विजयस्थेन श्लोकेन स्वस्य सदापि कार्यबाहुल्यमासञ्जितमिति व्यञ्ज
यति कविः । तच्च कार्य राज्यनिर्वाहरूपमित्यनुमीयते ।
श्रीनीलकण्ठमखीन्द्र आत्मानं वार्तिकाभरणस्य प्रणेतुर्वेङ्कटेश्वरमखिनः शिष्यं व्याहरति
गङ्गावतरणकाव्ये कथावतारसर्गे । यथा-' 'वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः । श्रीवेङ्क-
टेश्वरमखी शिष्ये मय्यनुकम्पते ॥" इति । अयं साग्निचित्याप्तवाजपेययाजी वासिष्ठवं-
शोद्भवः श्रीवेङ्कटेश्वरमखी । श्रीवेङ्कटेश्वरमखिनः पिता श्रीमानद्वैतविद्याचार्यः साग्नि-
चित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजी गोविन्ददीक्षितः । यः कौमारिलदर्श-
नस्य विश्रुतां व्याख्यां रचयामास । यं तञ्जपुराधिनाथो रघुनाथः स्वार्धासनदानेन सभा-
जयति स्म । येन स्वकृतसर्वतोमुखमहासत्रे निखानिताश्चिरावस्थितेर्युक्तरूपाः शिला-
यूपाः कावेरीतीरेषु । यस्य वाजपेयेन यजतः स्वयं जग्राह श्वेतच्छत्रं स्वपित्रा नियुक्तो
युवराजो रघुनाथभूपालः । प्रतीयतेऽमुना गोविन्दमखीन्द्रेण कृतमासीत्षड्दर्शनीसारभूतं
प्रशस्यं किमपि ग्रन्थान्तरमिति वक्ष्यमाणपद्याभ्याम् -
'अद्वैतविद्याविभवावलम्बान्गोविन्दयज्वेन्द्रगुरूनुपासे ।
निर्मथ्य षड्दर्शननीरधीन्ये धियैव सारं ददते बुधेभ्यः ॥'
१. (१) राघवानन्द-नीलापरिणय-सभापतिविलासादिनाटकानां प्रबन्द्धा वेङ्कटेश्व-
रोऽन्य एव । स निवाश्यपान्ववायजो धर्मराजमनीषिणस्तनूजो वैद्यनाथसूरिणः
पौत्रः, 'मणलर्' पुरवास्तव्यश्च ।
(२) चित्रबन्धरामायणाख्यकाव्यस्य कर्ता वेङ्कटेश्वरस्त्वपरस्तृतीयः । तस्य परम्परा
यथा-
इति यज्ञनारायणदीक्षितविरचिते साहित्यरत्नाकरे ।
(तस्य पुत्रचतुष्कात् प्रथमः)
चरकूरिकोण्डुभट्टः
तिरुमलयज्वा
तिम्मयसोमयाजी ( कृष्णातीरवासी बढ़चकाश्यपः)
यज्ञेश्वरः
(द्वितीयः)
लक्ष्मीधरः (अयमेव रामानन्दाश्रमी;
षड्भाषाचन्द्रिकायाः, अनर्घराघवव्याख्याया इष्टार्थ-
कल्पवल्लर्याच कर्ता)
यज्ञेश्वरदीक्षितः (अलंकारराघव - अलंकारसूर्योदय - चित्रबन्ध
रामायणव्याख्यानादीनां कर्ता)
वेङ्कटेश्वरः (चित्रबन्धरामायणकाव्यस्य कविः)