गङ्गावतरणम् /20
This page has not been fully proofread.
१२
तस्य तृतीयनन्दनेन गीर्वाणेन्द्रेण कृते शृङ्गारकोशभाणे च । यथा - 'एष खलु द्वितीय-
शंकररूपाणामप्पयदीक्षितानां नप्ता नलचरित्रनाटकप्रबन्द्धा' इति कुशकुमुद्वतीयनाटके,
'कैय्यटव्याख्यानशिवतत्त्वरहस्याद्यनेकप्रबन्ध निर्मातुः * * पवित्रकीर्तेर्नीलकण्ठमखिनः'
इति पूर्वोक्ते च भाणे समुपलभ्यते । श्रीनीलकण्ठमखीन्द्रो मधुरानगर्यां तिरुमलैनायक-
महाराजस्य सदसि पण्डितसार्वभौमोऽमात्यप्रवरश्चाभूत् । तत्पुत्रा अपि तामेव पश्चादध्य-
वात्सुरित्ययमंशः सूच्यते गीर्वाणेन्द्रेणापि 'शृङ्गारकोशो नाम भाण इत्यधुनैव खलु निवेदितं
मधुरापुरादागतेन रङ्गकेतुना' इति वाक्येन । श्रीनीलकण्ठदीक्षितस्य अय्यादीक्षित इति
चाभून्नामान्तरम् । तथा च तमयापि व्यवहरन्ति विज्ञाः । अत्र च तञ्जनगरे वेदमूर्ति-
जम्बुनाथभट्टानां सरस्वतीभाण्डागारे समधिगम्यते नीलकण्ठविजयचम्पूप्रबन्धस्य प्राचीनं
कोशद्वयम् । तत्र कोशद्वयेऽप्यवसानयोर्लिखितं संदृश्यते –'समाप्तं चेदमय्यादीक्षितवि-
रचितं चम्पूकाव्यम् ॥' इति नीलकण्ठमखीन्द्रस्य तथा नामान्तरेणाप्याकारणं न विना-
कारणम् । विदितमेव हि सर्वेषामस्माकमस्मद्देशीयाः प्रायशो बिभ्रति पितामहानां नाम ।
तच्च किंचिद्विकृतमेव कीर्तयन्ति मातरः श्वशुराणां साक्षान्नामग्रहणमनुचितमिति । अत
एवं नामपरम्परा आसन् श्रीमदप्पयदीक्षितानां वंशे । यथा –आचार्यदीक्षितः, आचार्य-
दीक्षितपौत्र आञ्चादीक्षितः (आचार्यदीक्षितः), तत्पौत्र अय्यादीक्षितः (आचादीक्षितः),
इति । श्रीनीलकण्ठमखीन्द्रस्याशयमनुरुन्धान एव सर्वमपि हालास्यनाथस्योत्सवं निरवर्त-
यत्तिरुमलैनायकमैहाराजः । नीलकण्ठमखीन्द्रोऽपि निर्लोड्य शास्त्राणि यथादृष्टं तेषु कारया-
मास सर्वमप्युत्सवादिकम् । ततः सर्वा अपि लीला भगवतो हालास्यनाथस्य काव्या-
त्मना निर्ममे कविः । तदेव प्रथते शिवलीलार्णवमहाकाव्यनाम्ना-
'यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो
यच्चैकाग्र्यं तदुचितपदान्वेषणे चित्तवृत्तेः ।
लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥"
१. W. Taylor's Oriental Historical Manuscripts, Vol.
II., p. 153:–
"In Tai Month of Srimuga year (i. e. S. S. 1548) a
mandapam in the Teppa-Kulam * * was completed.
Besides agreeably to the declaration of Ayyâ Dikshitar,
a brahmin versed in ancient language the King command-
ed that the celebration of all the sacred amusements of
the God should be conductd by the temple attendants
according to the ordinances of the ancient books."