This page has not been fully proofread.

१०
 
अतोऽयमानन्दरायमखी श्रीमदप्पयदीक्षितानां स्वर्गारोहणकाले १६२६ ख्रिस्ताब्दे
जातमात्रोऽपि नाभूदिति स्पष्टम् । एवं स्थिते कथमस्य संभाव्यते दीक्षितैः सह समकालि-
कता, कथमस्य प्रसज्येत दीक्षितैरपि माननीयता वा ।
 
अपरं च । तस्मिन्नेव दीक्षितवृत्तान्तप्रकरणे 'दीक्षितानां समानकालिको न्यूनवया
राजचूडामणिदीक्षितो भावनापुरुषोत्तमनाटककृत्' इति भट्टश्रीनारायणशास्त्रिणो वदन्ति ।
प्रसज्येत दीक्षितैः सह समकालिकत्वं तदपेक्षया न्यूनवयस्त्वं च श्रीमतो राजचूडामणि-
दीक्षितस्य । परं तु न्यूनवयसा राजचूडामणिदीक्षितेन कृतं भावनापुरुषोत्तमं स्वमते
दीक्षितानामपि मान्यतमो : आनन्दरायमखी विद्यापरिणयनाटके कथं चिरादेव निर्वर्तितं
व्याहरतीति शास्त्रिणां चिन्तालवोऽपि चेतःपदवीं नारूढ इव । एवमस्ति किल प्रस्तावनायां
विद्यापरिणयनाटकस्य -
 
'पारिपार्श्विकः – भाव, कृष्णमिश्रप्रसृतिभिरत्र प्रबोधचन्द्रोदय इति, संकल्पसूर्यो-
दय इति, भावनापुरुषोत्तम इति च न्यबन्धि नाम बहुधा प्राचीनैः । किमनेनाभिनवसंर-
म्भेण ।' इति ।
 
अत्रोपरितनवाक्यादानन्दरायमखिनः प्राचीनो भावनापुरुषोत्तमकृदिति सिद्धम् ।
वस्तुतो भावनापुरुषोत्तमनाटकस्य प्रबन्द्धा न राजचूडामणिदीक्षितः, किंतु तस्य पिता
तोण्डीरमण्डलान्तर्वर्तिशूरसमुद्राग्रहारवास्तव्यः कृष्णभट्टारकपौत्रः, भवस्वामिनो लक्ष्म्याश्च
पुत्रः, रत्नखेटश्रीनिवासदीक्षित इति सुप्रसिद्धः कविरिति तस्मादेव ग्रन्थतः स्पष्टी-
भवति । तथा च भावनापुरुषोत्तमनाटके-
'नटी – ईरिसप्पबन्धणिव्वाहइत्तओ को वा कई भवे ।
 
सूत्रधारः - अये, किमेतमपि न जानासि । अस्ति खलु कश्चित्तोण्डीरेषु श्रीश्शूरसमुद्रा-
भिधानो महानग्रहारः ।
 
तत्रास्ति कश्चित्तरुणाग्निहोत्री षड्दर्शनीसागरपारदृश्वा ।
शतावधानीत्यपराभिधानः श्रीश्रीनिवासाध्वरिसार्वभौमः ॥
 
नटी - केण वा ण जाणीअदि सो ।
 
-
 
सूत्रधारः-
:- स एव विश्वामित्रवंशमुक्तामणिः श्रीकृष्णभट्टारकपौत्रः श्रीभवस्वामिभट्ट-
·सूनुर्लक्ष्मीगर्भसंभवः श्रीकविवादिगजकेसरी भट्टाचार्यः प्रतिदिनप्रवन्धकर्ता तत्तादृशसक-
लविद्याचमत्कृतवादव्याख्यानोपन्यासकौशलेन चोलभूवल्लभेनास्थानीरचितपत्रावलम्बः
षड्भाषासार्वभौमः सर्वतन्त्र स्वतन्त्रः श्रीमदभिनवभवभूतिः श्रीरत्नखेटश्रीनिवासाध्वरी-
न्द्रोऽत्र प्रबन्द्धा ।' इति ।
 
एवं यदुच्यते भश्रीनारायणशास्त्रिभिश्चिन्नबोम्म नायको विजयनगराधीश इति तस्य
पिता कृष्णराज इति, ज्येष्ठो भ्राता नरसिंह इति तत्सर्वं भ्रमप्रयुक्तम श्रद्धेयमविचारर-
मणीयं च ।
 
तत्तादृशनिरतिशयमहिम्नां श्रीमदप्पयदीक्षितानां यवीयसो भ्रातुराचादीक्षितस्य पौत्रः