This page has not been fully proofread.

बावाजिनाम्नो नप्ता, तञ्जनगराधीशस्यैकोजिमहाराजस्य मन्त्रिणो गङ्गाधराध्वरिणः पौत्रः,
तस्यैव राज्ञो मन्त्रिणस्त्रिपुरविजयचम्पूप्रबन्धस्य निर्मातुर्नृसिंहरायमखिनस्तनूजः, स्त्रीधर्मा-
दिग्रन्थकृतस्र्यम्बकरायमखिनस्तद्वैमात्रेयस्य मुकुन्द विलासकाव्य-राघवाभ्युदयनाटकादीनां
प्रणेतुर्भगवन्तरायस्य च भ्रातृव्यः, शहजि-शरभोजि-तुक्कोजिमहीपालानां
विद्यापरिणय-जीवानन्दादिनाटकप्रणेता,
 
मन्त्री च । स्वयं
आश्वलायनगृह्यसूत्रव्याख्याता च । तेषां राज्ञां
 
राज्यारम्भकालोऽधस्तात्संदर्श्यते-
एकोजिराजस्य
 
शहजिराजस्य
 
शरभोजराजस्य
 
तुकोजराजस्
 
१६७६
 
१६८४
 
१७११
 
१७२९
 
ख्रिस्ताब्दाः ।
 
""
 
"
 
तुक्कोजिमहाराजः १७३६ वत्सरावधि सप्तसंवत्सरान्राज्यमकरोत् । असावानन्दरायमखी
स्वपितृव्यकृतमखानुष्ठानसमये धातृवर्षे (१६९८ ख्रिस्ताब्दे) अनतीतकौमारोऽभूत् –
 
पुत्रस्य किलैक भूपतिमणेर्मन्त्री सदैवाहत-
स्तेनासीद्गुरुवत्प्रगल्भधिषणो गङ्गाधराख्योऽध्वरी ॥
तस्य द्वौ तनयायुदारचरितौ कृष्णाम्बिकागर्भजा-
वेकक्ष्मापतिलालितौ गुरुपदे चारोप्य संमानितौ ।
तत्पुत्रेण च शाहजिक्षितिभृता ज्येष्ठानुवृत्त्यादृतौ
तत्तादृग्विविधाग्रहारकरणाद्विद्वत्प्रतिष्ठापकौ ॥
ज्येष्ठस्तत्र सदावदातचरितः श्रीमान्नृसिंहाध्वरी
गायत्रीसमुपासनादिभिरपि श्रौतश्च सत्कर्मभिः ।
आत्मानं परिपूर्य तं सुचरितैः पुत्रैः प्रतिष्ठाप्य च
त्रेधा ब्रह्महिताय सत्कृतिचितान्स ब्रह्मलोकानगात् ॥
तस्यात्मत्रितयेऽग्रजस्तु धृतिमानानन्दरायाध्वरी
कौमारात्प्रभृति प्रगल्भधिषणः श्रीशाहराजादृतः ।
इष्टापूर्त सदन्नदानसहितत्रै विद्यवृद्धैः सह
श्रुत्युक्तार्थपरिष्क्रियापटुमतिः सत्कर्मनिष्णातधीः ॥
 
*
 
ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तत्सुता-
न्पश्यन्पुत्रवदग्रजापचितिमप्यानन्दराये दधत् ।
वैतानानि च कारयन्सुचरितान्येतैः स्वपुत्रेण च
 
श्रीमानत्र महाग्निचिद्विजयते श्रीत्र्यम्बकार्योऽध्वरी ॥'
 
इति ढुण्डिव्यासराययज्वकृते मुद्राराक्षसव्याख्याने ।