This page has not been fully proofread.


 
यो भावनापुरुषवर्यमुखान्यकार्षीदष्टादशापि च दशाद्भुतरूपकाणि ।
भावोत्तराणि शतकण्ठजयादिमानि काव्यानि षष्टिमतनोदमृतायितानि ॥ १५ ॥
ध्वन्यध्वन्यमनोविनोदनिपुणाः साहित्य संजीविनी-
भावोद्भेदरसास्रवादिकृतयः पारेशतं यत्कृताः ।
 
अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धाः शतं
 
छन्दोज्यौतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥ १६ ॥
अन्याश्च यस्य कृतयो निखिलागमान्तसिद्धान्तितान्तरनिरन्तरसूक्तिगुम्फाः ।
षड्दर्शनीसकलमर्मविवेककर्मकर्मक्षमाः सुकृतिनां मुदमावहन्ति ॥ १७ ॥'
रत्नखेटदीक्षितस्य परम्परा यथा -
 
श्रीभवस्वामी (भाष्यकारः)
J
श्रीकृष्णार्यः (आह्निकप्रणेता)
 

कुमारभवस्वामी (अद्वैतचिन्तामणिकारः)
 

श्रीकृष्णार्यः
 
श्रीभवस्वामिभट्टः
 
श्रीरत्नखेटश्रीनिवासाध्वरी
 
तथा चोच्यते रुक्मिणीपरिणयकाव्यस्य व्याख्यानारम्भे-
'यः षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभवखामियष्टुः
श्रीकृष्णार्यस्य दैनंदिनकृतिकृतिनः सोमपः पञ्चमो यः ।
नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टुः
सर्वज्ञातुः कुमाराह्वयमिलितभवस्वामियज्वा भिवस्य ॥ ५ ॥
श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातु-
ज्र्ज्योतिष्टोम।दियष्टुर्विविधकृतिकृतः सर्वविद्याधिकस्य ।
यः श्रीवैकुण्ठघण्टामणिरिति महितश्रीभवस्वामिभट्ट-
स्याद्वैतज्ञातधूताखिलकलुषगणस्यात्मजः खात्मवेत्तुः ॥ ६ ॥
यदुच्यते श्रीमदप्पयदीक्षितकृत 'सिद्धान्तलेशसंग्रह'ग्रन्थस्य प्रारम्भे दीक्षितवृत्तान्तले
खनप्रवृत्तैर्भश्रीनारायणशास्त्रिभिः 'अस्य (अप्पयदीक्षितस्य) समकालिकाः कवयः पण्डि-
ताश्च विलिख्यन्ते' इत्यारभ्य 'आनन्दरायमखी विद्यापरिणय-जीवानन्दादिप्रणेतास्य
मान्यतमो वृद्धः' इति, तत्प्रमादकृतम् । अयमोनन्दरायमखी भोसलवंशभूपतिकुलामात्यस्य
 
१.
 
'श्रीमद्भोसलवंशभूपतिकुलामात्येषु विख्यातिमा-
न्भारद्वाजकुलार्णवेन्दुरुदभूद्वावाजिरग्न्याहितः ।