This page has not been fully proofread.

श्रीमदप्पयदीक्षितस्य समानकालिकाः कवयः पण्डिताश्च -
 
(१) सुप्रसिद्धः श्रीमान्रत्नखेटदीक्षितः, (२) आलंकारिकचूडामणिर्महाकविर्जगन्नाथप प-
ण्डितः, (३) वैयाकरणसार्वभौमः श्रीमान्महोजिदीक्षितः, (४) अद्वैतविद्याचार्यश्चोलभूवल्लभ-
स्याच्युतनायकस्य तत्तनयस्य रघुनाथभूपालस्य च मन्त्री विश्वविश्रुतौदार्यो गोविन्ददीक्षितश्च।
रत्नखेटदीक्षितस्य श्रीनिवासदीक्षित इत्येव स्वपित्रा कृतं नाम । तस्य रत्नखेटश्रीनि-
वासदीक्षित इत्यपि भूयान्व्यवहारः । तस्य संध्यावर्णनचातुर्यात्प्रमुदितेन राज्ञा कृतं नाम
रत्नखेटाध्वरीति । उच्यते चैवं तस्य पुत्रेण राजचूडामणिदीक्षितेन प्रणीतस्य रुक्मिणी-
परिणयमहाकाव्यस्य व्याख्यानारम्भे व्याख्यात्रा बालयज्ञवेदेश्वरेण-
'संध्यासंधुक्षिताम्भोधरनलिकगणादुद्गतान्सीसखण्डां-
स्ताराकारान्निरोद्धुं शशिरविकपटाद्विभ्रतो रत्नखेटौ ।
अन्योन्यं युध्यमानाबुदयचरमभूभृत्प्रवीराविति द्रा-
-
 
गुत्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥'
श्रीमतो रत्नखेटदीक्षितस्य कृतयः – (१) शितिकण्ठविजयकाव्यम्, (२) भावनापुरुषो
त्तमनाटकम्,(३)अद्वैतास्रवकौस्तुभम्, (४) वादतारावली, (५) मध्वध्वंसनम्, (६)बौद्धत-
न्त्रमथनम्, (७) वेदान्तवादावली, (८) मणिदर्पणम्, (९) समयसर्वस्वम्, (१०) विधिनि-
र्णयम्, (११) रत्नप्रदीपम् । अन्ये च सन्ति बहवस्तत्प्रणीताः प्रबन्धाः । उच्यन्ते च
तत्कृतप्रबन्धानां नामानि पूर्वोक्तव्याख्याने । यथा-
'अद्वैतास्रवकौस्तुभं व्यरचयद्यो वादतारावल
 
मध्वध्वंसन बौद्धतन्त्रमथने वेदान्तवादावलीम् ।
प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं
 
तत्त्वानां परिशुद्धिबोधविमलं रत्नप्रदीपं स्मृतेः ॥ १४ ॥
 
विद्या विशेषमणिजालखनेर्गुरुश्री भट्टोजिदीक्षित मुखाम्बुनिधेर्गृहीत्वा ।
सिद्धान्तमध्यमवनौ प्रकटीकरोति कश्चिद्धनी वरदराज इति प्रसिद्धः ॥'
 
अन्ते च -
 
इति तज्जोर्राजकीयपुस्तकालयस्थ-लघुसिद्धान्तकौमुदीप्रारम्भे ।
'नत्वा वरदराजः श्रीगुरून्भट्टोजिदीक्षितान् ।
करोति पाणिनीयानां मध्यसिद्धान्तकौमुदीम् ॥'
 
'एषा वरदराजेन बालानामुपकारिका ।
अकारि पाणिनीयानां मध्यसिद्धान्तकौमुदी ॥
कृतिर्वरदराजस्य मध्यसिद्धान्तकौमुदी ।
 
तस्याः संख्या तु विज्ञेया खबाणकरवह्निभिः ॥
इति श्रीरविटिकंटिकंटिवरदराजभट्टकृत-मध्यसिद्धान्तकौमुदी ॥'
 
इति तजोराजकीयपुस्तकालयस्थ-मध्य
सिद्धान्तकौमुद्याम् ।