गङ्गावतरणम् /10
This page has been fully proofread once and needs a second look.
वयांसि मम सप्ततेरुपरि नैव भोगे स्पृहा
न किंचिदहमर्थये शिवपदं दिदृक्षे परम् ॥' इति ।
उच्यते च शिवलीलार्णवमहाकाव्ये नीलकण्ठमखीन्द्रेण ––
'कालेन शंभुः किल तावतापि कलाश्चतुःषष्टिमिताः प्रणिन्ये ।
द्वासप्ततिं प्राप्य समाः प्रबन्धाञ्छतं व्यधादप्पयदीक्षितेन्द्रः ॥'
इति १ सर्गे ६ श्लोकः ।
तैः कृताः कृतयश्चतुरधिकं शतमिति परिगण्यन्ते विज्ञैः । त इमे दीक्षितेन्द्रा वेलूर्–
(Velur) आख्यनगराधीश्वरेण चिन्नवीरप्पनायकपुत्रेण लिङ्गमनायकस्य पित्रा [^१] <error>चिन्नवोम्म–
भूपालेन</error> <fix>चिन्नबो–
म्मभूपालेन</fix> सादरं नितरां संभाविताः संमाननाभिः । वसन्तस्तस्य समीप एव तत्र नगरे
बहुशोऽत्यवाहयन्स्वजीवितकालम् । उच्यते च ग्रन्थेषु ––
'हेमाभिषेकसमये परितो निषण्णसौवर्णसंहतिमिषाच्चिनबोम्मभूपः ।
अप्पय्यदीक्षितमणेरनवद्यविद्याकल्पद्रुमस्य कुरुते कनकालवालम् ॥
कर्णश्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयञ्जातकुम्भ-
स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्तिं प्रशस्याम् ।
रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते-
र्विद्याकल्पद्रुमस्य स्वयमिव कलयञ्जातरूपालवालम् ॥'
इति समरपुंगवदीक्षितकृत–यात्राप्रबंधचम्पूकाव्ये ।
'नाना देशनरेन्द्रमण्डलमहायत्नातिदूरीभव-
त्कादाचित्कपदारविन्दविनतेरप्पय्ययज्वप्रभोः ।
शैवोत्कर्षपरिष्कृतैरहरहः सूक्तैः सुधालालितैः
फुल्लत्कर्णपुटस्य बोम्मनृपतेः पुण्यानि गण्यानि किम् ॥'
इत्यन्यत्र च ।
अनन्तरं चाराधिता दीक्षितेन्द्राः पेन्नुगोण्डाधीशेन श्रीरङ्गरायसोदरेण तिरुमलरायतनू-
[^१] असौ चिन्नबोम्मभूपालो विजयनगराधीशस्य नरसिंहवंशीयस्य सदाशिवमहारायस्य,
पेन्नुगोण्डाधीशस्य कर्णाटराजस्य श्रीरङ्गमहारायस्य च, सामन्तोऽभूत् । चिन्नबोम्मभूपा-
लस्यास्य प्रार्थनया सदाशिवमहारायेण श्रीरङ्गमहारायेण च दत्तानि सप्त दानशासनपत्राणि
वेलूर्(Velur)ज्वरखण्डेश्वरदेवायतने शिलायामुत्कीर्णानि सन्ति । तानि च १४८८
(A. D. 1566) शकाब्दे, १४९७ (A. D. 1575) शकाब्दे च उत्कीर्णानि ।
(Vide pp. 69-75, Vol. I., South Indian Inscriptions, by
Dr. E. Hultzsch.)