This page has been fully proofread once and needs a second look.

गङ्गालहरीप्रणयनावसान एव जन्नाथस्यायुषः परिसमाप्तिरिति
वचनं नैव विचारसहम् । नापि गङ्गालहरीभिन्ना जगन्नाथविरचिता
काचिदपि मन्दाकिन्याः स्तुतिरस्ति यस्या अवसानसमयं जगन्नाथस्य
निधनावसरं मंस्यामहे । अतः सर्वथा निर्मूलेयमाख्यायिका ।
दृश्यन्ते च गङ्गालहरीगतानि पद्यानि रसगङ्गाधरे यथा--
 
विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानविभवैः
सवित्री कामानां यदि जगति जागर्ति भवति ॥
 
इति माधुर्योदाहरणम् ।
 
एवमनन्वयालङ्कारप्रकरणेऽपि--
 
कृतक्षुद्राघौघानथ सपदि संतप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ इति ।
 
एवं भावस्योदाहरणप्रसङ्गेनोक्तं जगन्नाथेन तत्रैव 'मन्निर्मिताश्च
पञ्च लहर्यो नाम पीयूषलहरी--सुधालहरी--लक्ष्मीलहरी--अमृतल--
हरी-- करुणालहरी चेति । एवं च पीयूषलहर्यपराख्यायाः श्रीगङ्गा-
लहर्याः पञ्चसु लहरीष्वन्तर्भूततया लहरीपञ्चकस्य च रसगङ्गाधर
उल्लिखितत्वेन गङ्गालहरीगतानां पद्यानां रसगङ्गाधरे दृश्यमानत्वाच्च
गङ्गालहर्या रसगङ्गाधरनिर्माणात्प्राक् संभूतत्वं स्फुटमेव प्रतीयते ।
ततश्च निर्मूलेयमाख्यायिका यदुच्यते लीनो मन्दाकिन्याकोडे
जगन्नाथ इति ।