This page has been fully proofread once and needs a second look.

प्रस्तावना ।
 

 
गङ्गालहरीप्रणयनावसान
 

 
एव जगन्नाथस्यायुषः परिसमाप्तिरिति

वचनं नैव विचारसहम् । नापि गङ्गालहरीभिन्ना जगन्नाथविरचिता

काचिदपि मन्दाकिन्याः स्तुतिरस्ति यस्या अवसानसमयं जगन्नाथस्य

निधनावसरं मंस्यामहे । अतः सर्वथा निर्मूलेयमाख्यायिका ।

दृश्यन्ते च गङ्गालहरीगतानि पद्यानि रसगङ्गाधरे यथा-

विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो

सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।

कृतं प्रायश्चित्तैरलमथ तपोदान विभवैः

सवित्री कामानां यदि जगति जागर्ति भवति ॥

इति माधुर्योदाहरणम् ।

एवमनन्वयालङ्कारप्रकरणेऽपि-

कृतक्षुद्राघौघानथ सपदि संतप्तमनसः

समुद्धर्तु सन्ति त्रिभुवनतले तीर्थनिवहाः ।

अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
 

 
नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ इति ।

एवं भावस्योदाहरणप्रसङ्गेनोक्तं जगन्नाथेन तत्रैव 'मन्निर्मिताश्च

पञ्च लहर्यो नाम पीयूषलहरी- सुधालहरी - लक्ष्मीलहरी-अमृतल-

हरी- करुणालहरी चेति । एवं च पीयूषलर्ह्यपराख्यायाः श्रीगङ्गा-

लहर्याः पञ्चसु लहरीष्वन्तर्भूततया लहरीपञ्चकस्य च रसगङ्गाधर

उल्लिखितत्वेन गङ्गालहरीगतानां पद्यानां रसगङ्गाधरे दृश्यमानत्वाच

गङ्गालहर्या रसगङ्गाधरनिर्माणात्प्राक् संभूतत्वं स्फुटमेव

प्रतीयते ।

ततश्च निर्मूलेयमाख्यायिका यदुच्यते लीनो मन्दाकिन्याकोडे
 

 
जगन्नाथ इति ।
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute