This page has been fully proofread once and needs a second look.

यद्यप्यहं मन्दमतिस्तथापि टीकासमाप्तिर्हि बभूव शीघ्रम् ।
नात्रापरं कारणमस्ति किंचिच्छ्रीभास्कराज्ञा किल किंवमोघा ॥ १ ॥
 
शाके कीलकसंज्ञके नृसुखके संमासके चैत्रके
वारे भार्गवके तिथौ करणके सर्पस्य संबालके ।
मूले मे विबुधौघचित्तसुखदा टीका समाप्तानया
तोषं यातु समस्तपापहरिणी गङ्गा महेशाङ्गना ॥ २ ॥
 
नृपं द्विपं वा तुरगं मृगं वा शुकं बकं वा महिषं वृषं वा ।
हरीकरोष्यङ्गनकं हि गङ्गे स्नातं भवत्यां सकृदीशसङ्गे ॥ ३॥
 
नारायणो यस्य पितामहोऽभून्मणीकभट्टश्च पिता तदीयः ।
गोपी यदीया जननी सुशीला टीका कृता तेन सदाशिवेन ॥ ४ ॥
 
भक्तोपोद्गमहेतोः केदारत्वं स्थितोऽसि भूभृति किम् ।
तत्राप्यागत्य त्वां स्वशिवं याचे हि तत् सर्वम् ॥ ५ ॥
 
इति श्रीसदाशिवकृता पीयूषलहर्याख्या गङ्गालहरी-
टीका समाप्ता ।
----------------------------