This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
यद्यप्यहंह्रं मन्दमतिस्तथापि टीकासमाप्तिर्हि बभूव शीघ्रम् ।
नात्रापरं कारणमस्ति किंचिच्छ्रीभास्कराज्ञा किल किं वमोघा १
शाके कीलकसंज्ञके नृसुखके संमासके चैत्रके
वारे भार्गवके तिथौ करणके सर्पस्य संबालके ।
मूले मे विबुधौघचित्तसुखदा टीका समाप्तानया

तोषं यातु समस्तपापहरिणी गङ्गा महेशाङ्गना ॥ २ ॥

नृपं द्विपं वा तुरगं मृगं वा शुकं बकं वा महिषं वृषं वा ।
हरीकरोष्यङ्गनकं हि गङ्गे स्नातं भवत्यां सकृदीशसङ्गे ॥३॥

नारायणो यस्य पितामहोऽभून्मणीकमट्टश्च पिता तदीयः ।
गोपी यदीया जननी सुशीला टीका कृता तेन सदाशिवेन ४

भक्तोपोद्गमहेतोः केदारत्वं स्थितोऽसि भूभृति किम् ।
तत्राप्यागत्य त्वां स्शिवं याचे हि तत् सर्वम् ॥ ५ ॥

इति श्रीसदाशिवकृता पीयूषलहर्याख्या गङ्गालहरी-
टीका समाप्ता ।
 
 
PUBLISHER:- Pandurang Jowaji,
 
at the 'Nirnaya-sagar' Press,
 
PRINTER:- Ramchandra Yesu Shedge, / 26-28, Kolbhat Lans, Bombay.!