This page has been fully proofread once and needs a second look.

सद्य' इत्यष्टमश्लोके उक्तः । मम जगन्नाथस्याङ्गान्यमलीकरो-
त्वित्यर्थः । कथंभूता गङ्गा । विभूषितानङ्गरिपूत्तमाङ्गा । अन-
ङ्गस्य कामस्य रिपुर्वैरी शिवः तस्योत्तमाङ्गं मस्तकं विभूषितं
स्वस्थित्या शोभायुक्तं कृतं अनङ्गरिपूत्तमाङ्गं यया सा । पुनः
कथंभूता । सद्यः तत्कालमेव कृतानेकजनार्तिभङ्गा । अनेके च
ते जनाश्च तेषामार्तिः पीडा तस्याः भङ्गः नाशः कृतः संपादितः
अनेकजनार्तिभङ्गो यया सा । यद्वा जनानां आर्तयः पीडाः
अनेकाश्च ता जनार्तयश्च तासां भङ्गः अनेकजनार्तिभङ्गो यया
सा । सद्यः कृतानेकजनार्तिभङ्गेत्येकं पदं वा । पुनः कथंभूता ।
मनोहरोत्तुङ्गचलत्तरङ्गा । मनोहरा अतिरमणीयाः उत्तुङ्गाः
उन्नताः चलन्तः चञ्चलाः तरङ्गाः यस्याः सा । अस्मिन्पद्ये उप-
जातिनामकं वृत्तम्। 'इन्द्रवज्रा तौज्गौग्' 'उपेन्द्रवज्रा ज्तौ-
ज्गौग्' 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः'
इति लक्षणात् ॥ ५२ ॥
 
स्वकाव्यपठनस्य फलमाह--
 
इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् ।
यः पठेत्तस्य सर्वत्र जायन्ते सुखसंपदः ॥ ५३ ॥
 
इमामिति । पीयूषस्यामृतस्य लहरीं त्वां यथा पीतामृतल-
हर्या आनन्दजनकत्वं तथा अस्या अपीति शेषः । अन्यकृति-
भ्रमवारणायाह--जगन्नाथेन निर्मितामिति । निर्मितां कृतीम् ।
शेषं सुगमम् ॥ ५३ ॥