This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
सद्य' इत्यष्टमश्लोके उक्तः । मम जगन्नाथस्याङ्गान्यमली करो-

त्वित्यर्थः । कथंभूता गङ्गा । विभूषितानङ्गरिपूत्तमाङ्गा । अन-

ङ्गस्य कामस्य रिपुर्वैरी शिवः तस्योत्तमा मस्तकं विभूषितं

स्वस्थित्या शोभायुक्तं कृतं अनङ्गरिपूत्तमाङ्गं यया सा । पुनः

कथंभूता । सद्यः तत्कालमेव कृतानेकजनार्तिभङ्गा । अनेके च

ते जनाश्च तेषामार्तिः पीडा तस्याः भङ्गः नाशः कृतः संपादितः

अनेकजनार्तिभङ्गो यया सा । यद्वा जनानां आर्तयः पीडाः

अनेकाच ता जनार्तयश्च ता जनार्तयश्च तासां भङ्गः अनेकजनार्तिभङ्गो यया

सा । सद्यः कृतानेकजनार्तिभङ्गेत्येकं पदं वा । पुनः कथंभूता ।

मनोहरोत्तुङ्गचलत्तरङ्गा । मनोहरा अतिरमणीयाः उत्तुङ्गाः

उन्नताः चलन्तः चञ्चलाः तरङ्गाः यस्याः सा । अस्मिन्पद्ये उप-

जातिनामकं वृत्तम्। 'इन्द्रवज्रा तौज्गौग्' 'उपेन्द्रवज्रा ज्तौ-

ज्गौग्' 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः'

इति लक्षणात् ॥ ५२ ॥
 

 
स्वकाव्यपठनस्य फलमाह-
७०
 
-
 

इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् ।

यः पठेत्तस्य सर्वत्र जायन्ते सुखसंपदः ॥५३॥
 

 
इमामिति । पीयूषस्यामृतस्य लहरीं त्वां यथा पीतामृतल-

हर्या आनन्दजनकत्वं तथा अस्या अपीति शेषः । अन्यकृति-

भ्रमवारणायाह- जगन्नाथेन निर्मितामिति । निर्मिती कृतीम् ।

शेषं सुगमम् ॥ ५३ ॥
 
1917
 
॥ तंजस्वि
 
वधीतमस्तु ।
 
Bhandarkar Oriental
Research Institute