This page has been fully proofread once and needs a second look.

युट्घञो'रिति पृषोदरादिगणपठितवचनेन कर्तुमिति मकार-
लोपः । तादृशे सति मृदुलं हसितं हास्यं यस्याः सा तया । इदा-
नीं सपत्नीभूतगङ्गायाचनेन श्रेष्ठसिद्धिर्भविष्यतीत्याशयेन हसिता
एतादृश्या हैमवत्या हिमवतो हिमाचलस्थायापत्यं स्त्री हैमवती ।
'तस्यापत्य'मित्यण् 'टिड्ढाणञि'ति ङीप् । तथा पार्वत्या साकूतं
आकूतेनाभिप्रायेण सहितं साकूतं तद्यथा स्यात्तथा वीक्षितायाः
विशेषेणेक्षिता वीक्षिता तस्याः । विशेषश्च जटाजूटस्थित्या द्रष्टु-
मशक्याया अपि यत्नतो दर्शनव्यापारवत्त्वम् । यद्यपि शिवस्य
पूर्वोक्तं सर्वस्वं मया हृतम् अतएव शिवः आत्मानं पणीकरोति
तथापि गङ्गा उर्वरिता वर्तते । सा च सपत्नीभूतत्वान्मामवमत्य
एतावत्कालपर्यन्तं शिवशिरसि स्थिता वर्तते । इदानीं याच-
यित्वा दासी संपादनीयेति साकूतमित्यस्यार्थ इति दिक् । नर्त-
नप्रियस्य शिवस्य द्यूतं विस्मारयितुं गङ्गया नृत्यमारब्धमिति
दिक् । हैमवतीत्यनेन कठिनहृदयत्वात्तेन सर्वस्वहरणयोग्य-
त्वम् । अस्मिन् श्लोके स्रग्धरा वृत्तम् । 'स्रग्धरा म्रौनौभ्रौनौयौय्त्रिः-
सप्तकाः' इति लक्षणात् ॥ ५१ ॥
 
इदानीं चरमश्लोकेन स्वाङ्गानाममलीकरणं प्रार्थयते--
 
विभूषितानङ्गारिपूत्तमाङ्गा
सद्यः कृतानेकजनार्तिभङ्गा ।
मनोहरोत्तुङ्गचलत्तरङ्गा
गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२ ॥
 
विभूषितेति । गङ्गा भागीरथी । गङ्गाशब्दार्थस्तु 'स्मृतं