This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 
६९
 

 
युद्धनो' रिति पृषोदरादिगणपठितवचनेन कर्तुमिति मकार-

लोपः । तादृशे सति मृदुलं हसितं हास्यं यस्याः सा तया । इदा-

नीं सपत्नीभूतगङ्गायाचनेन श्रेष्ठसिद्धिर्भविष्यतीत्याशयेन हसिता

एतादृश्या हैमवत्या हिमवतो हिमाचलस्थापत्यं स्त्री हैमवती ।

'तस्यापत्य'मित्यण् 'टिड्डाणञि'ति ङीप् । तथा पार्वत्या साकृकूतं

कृकूतेनाभिप्रायेण सहितं साकृकूतं तद्यथा स्यात्तथा वीक्षितायाः

विशेषेणेक्षिता वीक्षिता तस्याः । विशेषश्च जटाजूटस्थित्या द्रष्टु-

मशक्याया अपि यततो दर्शनव्यापारवत्त्वम् । यद्यपि शिवस्य

पूर्वोक्तं सर्वस्वं गयामय् हृतम् अतएव शिवः आत्मानं पणीकरोति

तथापि गङ्गा उर्वरिता वर्तते । सा च सपत्नीभूतत्वान्मामवमत्य

एतावत्कालपर्यन्तं शिवशिरसि स्थिता वर्तते । इदानीं याच-

यित्वा दासी संपादनीयेति साकृकूतमित्यस्यार्थ इति दिक् । नर्त-

नप्रियस्य शिवस्य धूद्युतं विसास्मारयितुं गङ्गया नृत्यमारब्धमिति

दिक् । हैमवतीत्यनेन कठिनहृदयत्वात्तेन सर्वस्वहरणयोग्य-

त्वम् । अस्मिन् श्लोके स्रग्धरा वृत्तम् । 'स्रग्धरा प्रौनौयौय् त्रिः-

सप्तकाः' इति लक्षणात् ॥ ५१ ॥
 

 
इदानीं चरमश्लोकेन खास्वाङ्गानाममलीकरणं प्रार्थयते-

विभूषितानङ्गारिपूत्तमाङ्गा
 

सद्यः कृतानेकजनार्तिभङ्गा ।

मनोहरोत्तुङ्गचलत्तरङ्गा
 

गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२ ॥

विभूषितेति । गङ्गा भागीरथी । गङ्गाशब्दार्थस्तु 'स्मृ
 
॥ तेजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
तं