This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 
उल्लासिन्यः ऊर्ध्वं उच्छलन्त्यः वल्गन्त्यः गच्छन्त्यः एतादृश्यो
या लहर्यः ता एव नटस्तस्य घटीताण्डवं शिरसि घटीं धृत्वा नर्त-
नम् । यद्वा नटस्य घटीताण्डवं नटघटीताण्डवम् व्यालोलोल्ला-
सिवल्गल्लहरीणां नटघटीताण्डवं तत् नः अस्मान् भक्तजनान्पु-
नातु पवित्रीकरोतु । व्यालोलादिविशेषणविशिष्टलहरी भवने
मूलमाह । कथंभूतायास्तव । द्यूते दुरोदरे परस्य जिगीषयाक्षैः
क्रीडनं द्यूतं तत्र । अत्र विनिगीषायाः सत्त्चात् 'दिवो विजिगी-
षाया' मित्यनेन निष्ठातस्य णत्वं न । नागेन्द्रकृत्तिप्रमथगणम-
णिश्रेणिनन्दीन्दुमुख्यम् । नागेन्द्रो वासुकिः कृत्तिर्गजादिचर्म,
प्रमथगणः तन्नामकः पारिषदः, मणिश्रेणिः मणीनां रुद्राक्षा-
दिमणीनां श्रेणिः पतिःड्क्त्ति:, नन्दिः स्ववाहनभूतो वृषभः, इन्दुः
स्वशिरोभूषणभूतश्चन्द्रः, एतेषां इतरेतरयोगद्वन्द्वः । नागेन्द्र-
कृत्तिप्रमथगणमणिश्रेणिनन्दीन्दवः मुख्याः श्रेष्ठाः यस्मिन् तत्
एतादृशं सर्वस्वं सर्वं च तत् स्वं च सर्वस्वं धनं हारयित्वा शिव-
सकाशात्पार्वतीं गृहीत्वा । हारयित्वेत्यत्र णिजन्तात्क्त्वा । अत्र
प्रयोजककर्तृत्वं पार्वत्याः, प्रयोज्यकर्तृत्वं शिवस्य । अतएव 'समा-
नकर्तृकयोः पूर्वकाले' इत्यनेन क्त्वासुलभः । वीक्षणकर्तृकर्तृत्वा
हरणमिति बोधः । प्रकृतमनुसरामः । अथ सर्वस्वहरणानन्तरं
पुरभिदि पुरनामानं दैत्यं मिनत्ति विदारयतीति पुरभित् तस्मिन्
शिवे स्वमात्मानं पणीकर्तुकामे सति पणनं व्यवहरणं पणः
'घञर्थे कविधान' मिति कः । अपणः पणः यथा संपद्यते तथा
कर्तुमिति पणीकर्तुं कामः इच्छा यस्य सः तस्मिन् । 'लुम्पेदव-
श्यमः कृत्ये तुं काममनसोरपि । समो वाहिततयोमासस्य पचि