This page has been fully proofread once and needs a second look.

६८
 
गङ्गालहरी ।
 

 
उल्लासिन्यः ऊर्ध्वं उच्छलन्त्यः वल्गन्त्यः गच्छन्त्यः एतादृश्यो

या लहर्यः ता एव नटस्तस्य घटीताण्डवं शिरसि घटीं धृत्वा नर्त-

नम् । यद्वा नटस्य घटीताण्डवं नटघटीताण्डवम् व्यालोलोल्ला-

सिवल्गल्लहरीणां नटघटीताण्डवं तत् नः अस्मान् भक्तजनान्पु-

नातु पवित्रीकरोतु । व्यालोलादिविशेषणविशिष्टलहरी भवने

मूलमाह । कथंभूतायास्तव । द्यूते दुरोदरे परस्य जिगीषयाक्षैः

क्रीडनं द्यूतं तत्र । अत्र विनिगीषायाः सत्त्चात् 'दिवो विजिगी-
पा

षा
या' मित्यनेन निष्ठातस्य णत्वं न । नागेन्द्रकृत्तिप्रमथगणम-

णिश्रेणिनन्दीन्दुमुख्यम् । नागेन्द्रो वासुकिः कृत्तिर्गजादिचर्म,

प्रमथगणः तन्नामकः पारिषदः, मणिश्रेणिः मणीनां रुद्राक्षा-

दिमणीनां श्रेणिः पतिः, नन्दिः स्ववाहनभूतो वृषभः, इन्दुः

स्वशिरोभूषणभूतश्चन्द्रः, एतेषां इतरेतरयोगद्वन्द्वः । नागेन्द्र-

कृत्तिप्रमथगण मणिश्रेणिनन्दीन्दवः मुख्याः श्रेष्ठाः यस्मिन् तत्

एतादृशं सर्वस्वं सर्वं च तत् स्वं च सर्वस्वं धनं हारयित्वा शिव-

सकाशात्पार्वतीं गृहीत्वा । हारयित्वेत्यत्र णिजन्तात्क्त्वा । अत्र

प्रयोजककर्तृत्वं पार्वत्याः, प्रयोज्यकर्तृत्वं शिवस्य । अतएव 'समा-

नकर्तृकयोः पूर्वकाले' इत्यनेन क्त्वासुलभः । वीक्षणकर्तृकर्तृत्वा

हरणमिति बोधः । प्रकृतमनुसरामः । अथ सर्वस्वहरणानन्तरं

पुरभिदि पुरनामानं दैत्यं मिनत्ति विदारयतीति पुरभित् तस्मिन्

शिवे स्वमात्मानं पणीकर्तुकामे सति पणनं व्यवहरणं पणः

'घञर्थे कविधान' मिति कः । अपणः पणः यथा संपद्यते तथा

कर्तुमिति पणीकर्तुं कामः इच्छा यस्य सः तस्मिन् । 'लुम्पेदव-

श्यमः कृत्ये तुं काममनसोरपि । समो वाहिततयोमासस्य पचि
 
Research Institute