This page has been fully proofread once and needs a second look.

रयितुं प्रभवेत् । नूनं नैतत्कथंचिदपि संभवति । 'यवनी नवनी-
'तकोमलाङ्गी'त्यादयः श्लोका यदि पण्डितराजविरचिता एवेति
स्वीक्रियेत तदा भामिनीविलासेऽपि तेषामुपनिबन्धनमवश्यमङ्गी-
कर्तव्यम् । दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया स्वीयपद्य-
रत्नानां भामिनीविलासाख्यां मञ्जूषां निर्मितवता पण्डितराजेन कथं
वा तानि विस्मर्येरन् कथं च मञ्जूषायां न संगृह्येरन्नित्यपि विचार-
णीयं विद्वद्भिः । अतो नैतानि पद्यानि पण्डितराजप्रणीतानीति
प्रतीयते । ततश्च जगन्नाथस्य यवनीपरिणयविषयिणीयमाख्यायिका
गगन आलेखनमनुहरति । किंच सार्वभौमायमानो दिल्लीश्वरः सभायां
जलं पिबेदित्यपि न श्रद्धेयम् । नापि वा तस्य कन्यका शिरसि कलशीं
निधाय हीनभाग्या योषिदिव नीरमानयेदित्यपि संभवास्पदम् ।
येभ्यः पन्थानोऽपि भृत्यैरेवादिश्यन्ते तेषानसूर्यंपश्याः कन्यास्तत्र च
सुस्तनीत्वादिविशेषणार्हा: प्रगल्भे वयसि पदमर्पयन्त्यः परपुरुषपरि-
वृत्तायां परिषदि पानीयमानयेयुरित्यपि विरुद्धमेव प्रतिभाति । अतो
निर्मूलेयं जगन्नाथस्य यवनीपरिणेतृत्वविषयिण्याख्यायिका ।
 
अथ भगवत्या भागीरथ्यात्मनोऽङ्गेषु विलयं नीतो जगन्नाथ
इत्येषापि किंवदन्ती कियत्सत्यभावमवलम्बत इति विचार्यते ।
ययैव पण्डितराजविरचितया स्तुत्या प्रमुदितहृदया देवनदी जग-
न्नाथं पावयामासेति श्रूयते सा किल पीयूषलहरी गङ्गालहरीति वा
प्रथिता । यदि तूपरि निर्दिष्टा लोकवार्ता मृषात्वं नावगाहेत तदा
गङ्गालहरीप्रणयनकाल एव जगन्नाथस्यायुषोऽवसानावसर इति स्फु-
टमेव । ततश्च गङ्गालहरीप्रणयनोत्तरं जगन्नाथो नान्यं प्रबन्धं,
निर्मास्यतीत्यपि सिद्धम् । अर्थाज्जगन्नाथविरचिते प्रबन्धान्तरे गङ्गा
लहरीगतानि पद्यानि नैव दृश्येरन् । किंतु तानि दृश्यन्ते । अतएव