This page has been fully proofread once and needs a second look.

सुधारसैः सान्द्राः निबिडाः ते च ते सुधारसाश्च तैः अमृतजलैः ।
'रसो जलं रसो हर्ष' इत्यनेकार्थकोशः । स्रस्तं अधःपतितम् ।
'स्रंसु अधःपतने' पदत्वाभावात् 'वसुस्त्रंस्वि'ति दत्वं न । गारु-
त्मतैः गरुत्मान् गरुडः 'गरुत्मान् गरुडस्तार्क्ष्य'इत्यमरः । देवता
येषां ते गारुत्मताः तैः 'सास्य देवते'त्यण् । यद्वा गरुत्मतः
इमे गारुत्मताः तैः 'तस्येद'मित्यण् । एतादृशैः ग्रावभिः पा-
षाणै: । ’पाषाणप्रास्तरग्रावोपलाश्मानः शिला दृषदि'त्यमरः ।
विदलितं विशेषेण दलितं स्फुटितम् । विशेषश्च खण्डखण्डभव-
नम् । अत्र सर्वत्र पूर्वार्धे नपुंसके भावे क्तः । अतएव कर्तुरनभि-
हितत्वान्मन्त्रैरित्यादिषु कर्तरि तृतीया । अत्र श्लोके शार्दूलवि -
क्रीडितं छन्दः । 'शार्दूलविक्रीडितं म्सौज्सौतौगादित्यऋषयः'
इति लक्षणात् ॥ ५० ॥
 
इदानीं गङ्गालहरीनटघटीताण्डवमस्मान्पुनात्विति प्रार्थयते--

द्यूते [^]नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दी-
न्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि
द्राक्पणीकर्तुकामे । साकूतं हैमवत्या मृदु-
लहसितया वीक्षितायास्तवाम्ब [^२]व्यालोलो-
ल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१ ॥
 
द्यूत इति । भो स्वर्लोककल्लोलिनि, तव भवत्याः व्यालो-
लोल्लासि वलूगल्लहरिनटघटीताण्डवम् । व्यालोलाश्चञ्जलाः
--------------------------------------------------------
[^१] फणिश्रेणि इति पाठः ।
[^२] प्रोल्लोलोल्लासिलीलालहरिनवघटोत्ताण्डवं नः
पुनीतां इति पाठः ।