This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 
सुधारसैः सान्द्राः निविबिडाः ते च ते सुधारसाश्च तैः अमृतजलैः ।
'रसो जलं रसो हर्ष' इत्यनेकार्थकोशः । स्रस्तं अधःपतितम् ।
'स्रंसु अधःपतने' पदत्वाभावात् 'वसुश्त्रंस्वि'ति दत्वं न । गारु-
त्मतैः गरुत्मान् गरुडः 'गरुत्मान् गरुडस्तार्क्ष्य' इत्यमरः । देवता
येषां ते गारुत्मताः तैः 'सास्य देवते' त्यण् । यद्वा गरुत्मतः
इमे गारुत्मताः तैः 'तस्येद 'मित्यण् । एतादृशैः ग्रावभिः पा-षाणै; ।
'
: ।
पाषाणग्रस्तरग्रावोपलाश्मानः शिला दृषापदि' त्यमरः ।
विदलितं विशेषेण दलितं स्फुटितम् । विशेषश्च खण्डखण्डभव-
नम् । अत्र सर्वत्र पूर्वार्धे नपुंसके भावे क्तः । अतएव कर्तुरनभि-
हितत्वान्मन्त्ररित्यादिषु कर्तरि तृतीया । अत्र श्लोके शार्दूलवि -
क्रीडितं छन्दः । 'शार्दूलविक्रीडितं म्सौज्सौतौगादित्यऋषयः'
इति लक्षणात् ॥ ५० ॥
 
इदानीं गङ्गालहरीनटघटीताण्डवमस्मान्पुनात्विति प्रार्थयते-
द्यूयुते नागेन्द्रकृत्तिप्रमथगणर्मणिश्रेणिनन्दी-न्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि
द्राक्पणीकर्तुकामे । साकूतं हैमवत्या मृदु-
लहसितया वीक्षितायास्तवाम्ब व्यालोलो-
ल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ५१
द्यूत इति । भो स्वर्लोककल्लोलिनि, तव भवत्याः व्यालो-
लोल्लासि वलूगल्लहरिनटघटीताण्डवम् । व्यालोलाश्च श्चलाः
 
१ फणिश्रेणि इति पाठः । २प्रोल्लोलोल्लासिलीलालहरिनवघटोत्ताण्डवं नः
पुनीतां इति पाठः ।