This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 
६७
 

 
सुधारसैः सान्द्राः निविडाः ते च ते सुधारसाच तैः अमृतजलैः ।

'रसो जलं रसो हर्ष' इत्यनेकार्थकोशः । स्रस्तं अधःपतितम् ।

'स्रंसु अधःपतने' पदत्वाभावात् 'वसुंखिसुश्त्रंस्वि'ति दत्वं न । गारु-

त्मतैः गरुत्मान् गरुडः 'गरुत्मान् गरुडस्तार्क्ष्य' इत्यमरः । देवता

येषां ते गारुत्मताः तैः 'सास्य देवते' त्यण् । यद्वा गरुत्मतः

इमे गारुत्मताः तैः 'तस्येद 'मित्यण् । एतादृशैः ग्रावभिः पा-
षाणै; ।
'
पाणैः । 'पापाषाणग्रस्तरग्रावोपलाश्मानः शिला दृषापदि' त्यमरः ।

विदलितं विशेषेण दलितं स्फुटितम् । विशेषश्च खण्डखण्डभव-

नम् । अत्र सर्वत्र पूर्वार्धे नपुंसके भावे क्तः । अतएव कर्तुरनभि-

हितत्वान्मन्त्ररित्यादिषु कर्तरि तृतीया । अत्र श्लोके शार्दूलवि

क्रीडितं छन्दः । 'शार्दूलविक्रीडितं म्सौज्सौतौगादित्यऋषयः'

इति लक्षणात् ॥ ५० ॥
 

 
इदानीं गङ्गालहरीनटघटीताण्डवमस्मान्पुनात्विति प्रार्थयते-

द्यूते नागेन्द्रकृत्तिप्रमथगणर्मणिश्रेणिनन्दी-
न्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि

द्राक्पणीकर्तुकामे । साकूतं हैमवत्या मृदु-

लहसितया वीक्षितायास्तवाम्ब व्यालोलो-

ल्
लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ५१

द्यूत इति । भो स्वर्लोककल्लोलिनि, तव भवत्याः व्यालो-

लोल्लासि लूगल्लहरिनटघटीताण्डवम् । व्यालोलाश्च श्चलाः
 
JD
 

 
१ फणिश्रेणि इति पाठः । २ प्रोल्लोलोल्लासिलीलालहरिनवघटोत्ताण्डवं नः

पुनीतां इति पाठः ।
 
FOUNDED
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute