This page has been fully proofread once and needs a second look.

वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं [^१]तिरयाधुना मम [^२]भवज्वालावलीढात्मनः
 
मन्त्रैरिति । वीचिक्षालितकालियाहितपदे कालियस्याहितः
शत्रुः कालियाहितः विष्णुः तस्य पदं चरणः वीच्या क्षालितं
प्रक्षालितं वीचिक्षालितं कालियाहितपदं यया सा तत्संबोध-
नम् । यद्वा कालियः अहितः शत्रुर्यस्य स कालियाहितो विष्णुः
शेषं पूर्ववत् । यद्वा कालिये आहितं अर्थात् विष्णुना स्थापितं
तच्च तत्पदं च शेषं प्राग्वत् । हे स्वर्लोककल्लोलिनि स्वर्लोकस्य
सुरलोकस्य कल्लोलिनी नदी तत्संबोधनम् । एवं अधुना भवज्वा-
लावलीढात्मनः भवस्य ज्वालाः ताभिः अवलीढः कवलितः ।
व्याप्त इत्यर्थः । तादृशः आत्मा यस्य तस्य मम तापं निरय निवा-
रय । तिरयेति पाठः । तत्र तिरःकुरु । तिरशब्दात् णिजन्ता-
ल्लोट् । अव्ययानां भमात्रे टिलोपः इति तिरसष्टेर्लोप: । क्वचित्तु
भवव्यालावलीढात्मन इति पाठः । तत्र भव एव व्यालः सर्पः
तेनावलीढः तादृश आत्मा यस्य स तस्येति व्याख्येयम् । ननु
तादृशतापनिवारणे मन्त्रादयो बहवः सन्तीति चेत्तेपि न शक्ता
इत्याह--मन्त्रैरित्यादि मन्त्रैर्मीलितं साहसेन तापनिवारणा-
भावात् संकुचितमित्यर्थः । अयं हेतुः सर्वत्र पूर्वार्धे योज्यः ।
बहुवचनं तु एकोपि न समर्थ इति बोधनाय। एवमग्रेपि बोध्यम् ।
यद्वा यत्र बहुभिः संकुचितं तत्र एकस्य का वार्तेत्यर्थबोधनाय ।
औषधैस्तापनिवारणाय योग्यैर्वैद्यशास्त्रप्रसिद्धैर्मुकुलितं मुकुलीभा-
वमापन्नं । सुराणां देवानां गणैः संधैः त्रस्तं त्रासं गतं । सीन्द्र-
-------------------------------------
[^१] अयमेव पाठः साधुः ।
[^२] भवव्यालावलीढात्मन इति पाठ: