This page has been fully proofread once and needs a second look.

६६
 
गङ्गालहरी ।
 

 
वीचिक्षालितकालियाहितपढें खर्लोककल्लोलिनि

त्वं तापं तिरैरेयाधुना मम भैवज्वालावलीढात्मनः

मन्त्रैरिति । वीचिक्षालितकालिया हितपदे कालियस्याहितः

शत्रुः कालियाहितः विष्णुः तस्य पदं चरणः वीच्या क्षालितं

प्रक्षालितं वीचिक्षालितं कालियाहितपदं यया सा तत्संबोध-

नम् । यद्वा कालियः अहितः शत्रुर्यस्य स कालियाहितो विष्णुः

शेषं पूर्ववत् । यद्वा कालिये आहितं अर्थात् विष्णुना स्थापितं

तच्च तत्पदं च शेषं प्राग्वत् । हे स्वर्लोककल्लोलिनि स्वर्लोकस्य

सुरलोकस्य कल्लोलिनी नदी तत्संबोधनम् । एवं अधुना भवज्वा

लावलीढात्मनः भवस्य ज्वालाः ताभिः अवलीढः कवलितः ।

व्याप्त इत्यर्थः । तादृशः आत्मा यस्य तस्य मम तापं निरय निवा-

रय । तिरयेति पाठः । तत्र तिरःकुरु । तिरशब्दात् णिजन्ता-

लोट् । अव्ययानां भमात्रे टिलोपः इति तिरसष्टेर्लोप: । क्वचित्तु

भवव्यालावलीढात्मन इति पाठः । तत्र भव एव व्यालः सर्पः

तेनावलीढः तादृश आत्मा यस्य स तस्येति व्याख्येयम् । ननु

तादृशतापनिवारण मन्त्रादयो बहवः सन्तीति चेत्तेपि न शक्ता

इत्याह - मन्त्रैरित्यादि मन्त्रैर्मीलितं साहसेन तापनिवारणा-

भावात् संकुचितमित्यर्थः । अयं हेतुः सर्वत्र पूर्वार्धे योज्यः ।

बहुवचनं तु एकोपि न समर्थ इति बोधनाय। एवमग्रेपि बोध्यम् ।

यद्वा यत्र बहुभिः संकुचितं तत्र एकस्य का वार्तेत्यर्थबोधनाय ।

औषधेस्तापनिवारणाय योग्यैवैद्यशास्त्र प्रसिद्धैर्मुकुलितं मुकुलीमा-

वमापनं । सुराणां देवानां गणैः संधैः त्रस्तं त्रासं गतं । सीन्द्र-

 
 
१ अयमेव पाठः साधुः । २ भवव्यालावलीढात्मन इति
 
-
 
तंजस्वि नावधीतमस्तु
 
Oriental
Research Institute