This page has been fully proofread once and needs a second look.

लश्वेतौ । श्वेतो रजतं तौ आसमन्ताल्लातीति शशिशकलश्वेतालः ।
तादृशो मुकुटो यस्याः सा ताम् । यस्याः रौप्यमुकुटे शशिश-
कलं वर्तत इत्यर्थः । अन्यत् विस्तारभयान्न लिख्यते । पुनः कथं-
भूता । करैः चतुर्भिः हस्तैः कुम्भाम्भोजे कुम्भश्च अम्भोजं च
कुम्भाम्भोजे कुम्भो घटः अम्भोजं कमलं ते वरभयनिरासौ च
भयस्य निरासः नाशः । अभयमित्यर्थः । वरश्च भयनिरासश्च वर-
भयनिरासौ तौ च दधती बिभ्रती । चतुर्भिर्हस्तैरिमानि चत्वारि
दधतीति भावः । पुनः कथंभूतां त्वाम् । सुधाधाराकाराभरण-
वसनाम् । सुधायाः अमृतस्य धारास्तदाकाराणि आभरणानि
वसनं च आभरणानि भूषणानि, वसनं वस्त्रम् । 'अलंकार-
स्त्वाभरणं परिष्कारो विभूषणम्' । 'वस्त्रमाच्छादनं वासश्चैलं
वसनमंशुक’मित्यमरः । सुधाधारावत् आकारो रूपं येषां तानि
सुधाधाराकाराणि तादृशानि आभरणवसनानि यस्याः सा ताम् ।
अतिशुभ्राभरणवसनामित्यर्थः । पुनः कथंभूतां त्वाम् । शुभ्रम-
करस्थितां शुभ्रश्चासौ मकरश्च शुभ्रमकर: मकरो मत्स्यः तत्र
स्थिता ताम् । शुभ्रमत्स्यवाहिनीमित्यर्थः ॥ ४८ ॥
 
इदानीं गङ्गा मम शरीरसुखं करोत्वित्याह--
 
दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै-
र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।
चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती
तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥ १९ ॥
 
दरस्मितेति । शंतनो: भीष्मपितुः अङ्गना कल्याणानि