This page has been fully proofread once and needs a second look.

६४
 
गङ्गालहरी ।
 

 
लश्वेतौ । श्वेतो रजतं तौ आसमन्ताल्लातीति शशिशकलश्वेतालः ।

तादृशो मुकुटो यस्याः सा ताम् । यस्याः रौप्यमुकुटे शशिश-

कलं वर्तत इत्यर्थः । अन्यत् विस्तारभयान्न लिख्यते । पुनः कथं-

भूता । करैः चतुर्भिः हस्तैः कुम्भाम्भोजे कुम्भश्च अम्भोजं च

कुम्भाम्भोजे कुम्भो घटः अम्भोजं कमलं ते वरभयनिरासौ च

भयस्य निरासः नाशः । अभयमित्यर्थः । वरश्च भयनिरासच वर-

भयनिरासौ तौ च दधती बिभ्रती । चतुर्भिर्हस्तैरिमानि चत्वारि

दधतीति भावः । पुनः कथंभूतां त्वाम् । सुधाधाराकाराभरण-

वसनाम् । सुधायाः अमृतस्य धारास्तदाकाराणि आभरणानि

वसनं च आभरणानि भूषणानि, वसनं वस्त्रम् । 'अलंकार-

स्त्वाभरणं परिष्कारो विभूषणम्' । 'वस्त्रमाच्छादनं वासश्चैलं

वसनमंशुक' मित्यमरः । सुधाधारावत् आकारो रूपं येषां तानि

सुधाधाराकाराणि तादृशानि आभरणवसनानि यस्याः सा ताम् ।

अतिशुभ्राभरणवसनामित्यर्थः । पुनः कथंभूतां त्वाम् । शुभ्रम-

करस्थितां शुभ्रवासौ मकरश्च शुभ्रमकर: मकरो मत्स्यः तत्र

स्थिता ताम् । शुभ्रमत्स्यवाहिनीमित्यर्थः ॥ ४८ ॥

इदानीं गङ्गा मम शरीरसुखं करोत्वित्याह-

दरस्मितसमुल्लसद्वदनकान्तिपूरामृतेतै-

र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।
 

चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती

तनोतु मम शं तनोः सपदि शन्तनोरङ्गना १९

दरस्मितेति । शंतनो: भीष्मपितुः अङ्गना कल्याणानि
 
INSTITUTE
 
POONA